मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 337, कुल 672 में से
संदर्भ में पढ़ेंभ्रमविचारः 295 एवं प्रमाप्रमाणानां प्रायः तत्त्वं विचारितम् । विशिष्य विस्तरः तत्तत्तीर्थिकैः प्रकटीकृतः ॥ (60) भ्रमविचारः. 1 अथ भ्रान्तिज्ञानतत्त्वं किंचिदत्रावधार्यताम् । आत्मख्यातिरसतख्यातिः अन्यथाख्यातिरित्यपि ॥ अख्यातिस्सदसद्भिन्नख्यातिस्सत्ख्यातिरित्यपि । शून्यख्यातिश्च निरधिष्ठानख्यातिरिहाष्टमी ॥ अर्थसंसर्गजाकारख्यातिश्च नवमी मता । बाह्याकारार्पिताकारख्यातिस्तु दशमी स्थिता ॥ भ्रान्तिस्थले पक्षभेदाः विद्वद्भिरुररीकृताः । तेषां विभागवचनमेतदत्र प्रवर्तते ॥ तत्रार्थशून्यं विज्ञानं योगाचारास्समाश्रिताः । आत्मख्यातिं विदुः स्वप्ने ह्यसत्ख्यातिं च जाग्रति॥ 2 कल्पिताकारिणी ख्यातिरसतख्यातिरितीतरे । तत्तु वैभाषिकमतं कल्पनावादिनो हि ते ॥ असतोऽपि भ्रमे भानं केचिद्वेदान्तिनो विदुः । विलक्षणाऽन्यथाख्यातिरेषोक्ताऽसत्प्रकारिणी ॥ शून्यख्यातिं विदुस्तत्र मध्यमागमवादिनः । योगाचारैः पुनस्तत्र न्याय एष प्रयुज्यते ॥