मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 341, कुल 672 में से
संदर्भ में पढ़ेंभ्रमविचारः 2 दोषादेषाऽपिच तदा स्मृतित्वेन न गृह्यते । रजतं च स्मरामीति तदानीमप्रतीतितः ॥ तस्मात्प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः रजतस्मरणं शुक्तिग्रहणं चास्ति धीद्वयम् ॥ ग्रहणस्मरणे एते विविक्ते अपि तत्तया । न गृह्येते इति विवेकाग्रहोऽख्यातिरुच्यते ॥ विवेकेन न गृह्येते स्मरणानुभवौ क्वचित् । स्वप्ने तु स्मृतिरेवैका तथात्वेन न गृह्यते ॥ द्विधाकृता क्वचिद्वृत्तिः नेत्रस्य तिमिरादिना । नहि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ॥ क्वचिद्रसनसंपृक्ते पित्ते तिक्तत्ववेदनात् । परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम् ॥ गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवर्ति तत् । तथातु न विजानाति निगिरन्नेव शर्कराम् ॥ अख्यातिरेषा सर्वत्र कथंचित्कस्यचिन्मता । तदेवंसति सर्वत्र सम्यग्ग्रहणं भ्रमः ॥ एषोऽग्रहस्वभावो वा ख्यात्यन्तरमथापिवा । नाद्योऽभावानुपगमान्नान्त्यस्स्यात्ख्यातिरन्यथा ॥ तस्मात्सामान्यधर्मस्य ख्यातिस्सत्ख्यातिरेव सा अख्यातिवादस्सत्ख्यातिवादश्चार्थान्तरं मतः ॥