मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 414, कुल 672 में से
संदर्भ में पढ़ें372 मानमेयरहस्यश्लोकवार्तिके 8 शाक्यास्तु सविकल्पस्य प्रत्यक्षत्वं न मन्वते । एतेषामनुमानादेरुत्पत्तिर्नैव सिध्यति ॥ सति भावो न कार्यत्वं किंतु सत्येव भाविता । तस्माच्चेदविनाभावः स्यादात्माश्रयणं ध्रुवम् ॥ प्रमातुः शिंशपात्वं तु यस्य प्रत्यक्षगोचरः । परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥ कार्यकारणभावोऽपि क्षणयोर्नैव संभवी । संभवन्नपि दुर्लक्षः तन्न हेतुरसावपि ॥ सोपाधिका चेदाशङ्का स्यादुपाधिविधूननात् । निर्धुतैव भवेत्तेनोपाधितत्त्वं विमृश्यताम् ॥ (76) उपाधिवादः. 1 साध्येन च समं व्याप्तः साधनाव्यापकश्च यः । स उपाधिरिति ह्याहोदयनो न्यायदेशिकः ॥ सिषाधयिषिते शब्दानित्यत्वे हि विशेषणैः । घटत्वमश्रावणत्वं सकर्तृत्वं च वार्यते ॥ वह्नौ साध्ये निवार्यन्ते तथैवैतैर्विशेषणैः । महानसत्वाद्व्र्व्यत्वतत्सामग्र्य इति क्रमात् ॥ 2 साध्यस्य साधनस्यापि व्यापकोऽव्यापकः क्रमात् उपाधिरिति वादीन्द्रः प्राह शंकरकिंकरः ॥