मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
DevanagariHindipublished672 पृष्ठ
पृष्ठ 43, कुल 672 में से
संदर्भ में पढ़ेंपृष्ठ 43
॥ श्रीरस्तु ॥ मानमेय रहस्य श्लोकवार्तिक प्रारम्भः
प्रमेयकाण्डः. (1) पीठिका 1 शुद्धस्वाभाविकप्रज्ञाशक्तिकारुण्यभूषणम् । नमिकर्मीकरोम्यद्यं विद्यादेवं श्रियः पतिम् ॥ अभिवन्द्य महोदारामस्मद्गुरुपरंपरम् । किंचित् करोमि जगतां प्रज्ञाविभवतोऽधुना ॥ 2 यः श्रीलक्ष्मीपुरंश्रीनिवासार्यो विदुषां मणिः । यं जन्मना ब्रह्मणा च वेंकटस्वाम्यजीजनत् ॥ श्रीमान् रामानुजाचार्यो येन पौत्र्यजयत् क्षितौ श्रीमत्तिरुमलै नल्लान् वात्स्यवंशाब्धिचन्द्रमाः ॥ श्रीमत्कस्तूरिरङ्गेन्द्रविद्वद्रत्नकृपाभरः । सर्वतन्त्रस्वतन्त्रत्वं यस्मै प्रायच्छदव्ययम् ॥ पितृव्यस्स विरक्तश्रीरघूद्वहगुरुद्वहः । आत्मरक्षाभरं यस्मादादत्त करुणाकरः ॥ यस्य वृत्तिं प्रतिष्ठां चानन्यतुल्यामकल्पयत् । महीशूरमहीधुर्यतुर्यश्रीकृष्णभूपतिः ॥