मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 440, कुल 672 में से
संदर्भ में पढ़ें३९८ मानमेयरहस्यश्लोकवार्तिके अस्तीदं वचनं तेषामिदं तत्र परीक्ष्यताम् । भेदोऽसतः कथं हि स्यात् बुद्धिशब्दप्रकल्पनात् निर्वस्तुके कथंचस्यात्प्रसवो बुद्धिशब्दयोः । शब्दभेदोऽपि भवतः तदभावान्न सिद्ध्यति ॥ ननु यद्वन्मया हेतुः नेष्यते दूषणं तथा । तेन मे दूषणाभावात् अदुष्टं किं न साधनम् ॥ नेदानीं दूषणं कार्यं साधनाभावतो यदि । त्वयैवास्मदभिप्रेता स्वपक्षासिद्धिराश्रिता ॥ एवमादिवचोभेदैः निरालम्बनसाधनम् । दूषितं विस्तरेणेदं वीक्ष्यतां श्लोकवार्तिके ॥ असत्यात्सत्यधीयुक्तिं समालम्ब्य हि शाङ्करे । शारीरके जगन्मिथ्यावाद एष समर्थितः ॥ नन्वेकत्वैकान्तवादे नानात्वं न प्रसिद्ध्यति । प्रत्यक्षादिप्रमाणानि व्याहतानि भवन्ति हि ॥ तथा विधिप्रतीषेधशास्त्राण्यप्यफलानि च । मोक्षशास्त्रं तथा शिष्यशासित्रादि विहन्यते ॥ कथंवा सत्यमेकत्वमनृतादवगम्यते । अत्रोच्यते प्राक्प्रबोधात् सर्वं सत्स्वाप्नवत्ततः ॥ सर्वोपपत्तिरेकत्वं त्वसत्यादपि गम्यते । यथा शङ्काविषाद्धेतोर्मरणाद्युपजायते ॥