मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 464, कुल 672 में से
संदर्भ में पढ़ें२२ मानमेयरहस्यश्लोकवार्तिके तेन वेदप्रमाणत्वं विषमे पथि वर्तते । जीविकोपायबुद्ध्या वा श्रद्धया वाऽभ्युपेयताम् ॥ २ विकल्पयोनयश्शब्दा विकल्पाश्शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यतः ॥ भिक्षुणा जातिमात्रस्य तथा जातिमतोऽपि वा । जातिमद्योगस्य चापि वाच्यत्वमिह दूषितम् ॥ एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥ वस्तुरूपं हि निर्भागं तत् प्रत्यक्षनिवेदितम् । अतो बलाल्लिङ्गशब्दौ अपोहविषयौ मतौ ॥ नागोर्निवृत्तिर्नासप्तिनिवृत्तिर्वाऽवबुध्यते । किंतु वस्तुस्वरूपेण स शब्दार्थोऽवगम्यते ॥ व्यावृत्तेष्वनुवृत्तं तं अपश्यन्तः परीक्षकाः । अतद्व्यावृत्तिरूपं तं सुनिष्कृष्य प्रचक्षते ॥ अनादिवासनावेगात् व्यावृत्तिरपि सा पुनः । सद्रूपमिव भिन्नं च तत्रतत्रावभासते ॥ ३ इति सौगतसिद्धान्तः एष शाब्दिकसौगतः । तद्वाक्यार्थात्मना वाक्यं निर्भागं हि विवर्तते ॥ वाक्यार्थो वाक्यतो नार्थान्तरमित्यवधार्यते । शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति ॥