मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 480, कुल 672 में से
संदर्भ में पढ़ेंआर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् पदान्तराक्षरोपेतं कल्पयन्ति कदांचन ॥ तस्माद्ये याज्ञिकैर्यैषां वैद्यैर्वार्था निरूपिताः । तेषां त एव शब्दानांमर्थाः मुख्या नचेतरे ॥ 8 भेदो नाम पदार्थानामवच्छेदः परस्परम् । संसर्गोऽपि पदार्थानामन्योन्येनानुरञ्जनम् ॥ स्वप्राधान्यात्पदार्थानां धर्मावेतावुभावपि । धर्मिभेदेन भिद्येते न ह्येकत्वमुपाश्रितम् ॥ अर्थैकत्वादेकवाक्यमित्यत्रेदं विचिन्तितम् । भाष्यवार्तिकयोः पूर्वमीमांसायां विलोक्यताम् । 9 नाम्नां द्विधैव संबन्धः सर्ववाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठ्या वा प्रतिपाद्यते ॥ सामानाधिकरण्यं च धर्मः शब्दगतः स्थितः । तस्य तात्पर्यविषयोऽप्यर्थस्ताच्छब्द्यमश्नुते ॥ सामानाधिकरण्यं तत्तादात्म्यमिति कीर्त्यते । विरोधैकान्तसिद्धान्ते तत्स्वरूपैक्यलक्षणम् ॥ तद्धि तावद्धर्मधर्मिजातिव्यक्त्यादिषूच्यते । धर्मधर्मिविभेदे तु सर्वथा नैक्यसंभवः ॥ धर्मभेदे तदायत्तो धर्मिभेदः व्यवस्थितः । स सिद्धान्तस्सौगतानामिति धीमद्भिनिश्चितः ॥