मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 482, कुल 672 में से
संदर्भ में पढ़ेंदेह आत्मेत्यादिदेशे त्वपवादः प्रकीर्त्यते । नीलमुत्पलमित्यादौ स्याद्विशेषणतेति च ॥ सविशेषब्रह्मविदः तत्त्वत्रयविदश्च ये । सर्वत्र तेषां तादात्म्यं विशिष्टाद्वैतलक्षणम् ॥ अविरोधान्तरङ्गत्वजातिभोगाद्यभेदतः । एकोक्तिरपृथक्सिद्धेः देशकालदशादिभिः ॥ परिणामविदो ये च भेदाभेदविदोऽपि च । अनेकान्तविदां तेषां तत् भेदाभेदलक्षणम् ॥ संप्रदायप्रभेदेन विवक्षाभेदतोऽपिवा । वेदान्तिनां भिदा तत्र विश्रुतेत्युपरम्यते ॥ 10 चतुर्विधस्तथा भेदः पूर्वस्त्वात्यन्तिको मतः । औपाधिको द्वितीयस्स्यात् तृतीयः पारिणामिकः । वैवर्तिकश्चतुर्थस्स्यात् अभेदोऽपि चतुर्विधः । अखण्डत्वं च तादात्म्यं वैशिष्ट्यं चौपचारिकम् । अतश्च बाधाद्ब्रह्मैक्यात् आत्मत्वादुपचारतः । तच्चतुर्धा जगद्ब्रह्मसामानाधिकरण्यगीः ॥ स्वभावाच्च विवर्ताच्च संकल्पात्परिणामतः । चतुर्विधं कारणत्वं वादिभिस्तैर्विकल्प्यते ॥ तथा कूटस्थशब्दार्थः चतुर्धा परिदृश्यते । कूटस्थो निर्विकारस्स्यात्तथा साधारणोऽपिचं ॥