भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 484, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 484

442 मानमेयरहस्यश्लोकवार्तिके हृदयं वेद इतिच भाष्यं मेधातिथोरिह । महतां हृदयं वेद इत्यप्याह कुमारिलः ॥ महत्परिग्रहो ह्येष विशेषो ह्यागमान्तरात् । एकस्य प्रतिभानं तु कृतकान्न विशिष्यते ॥ अपिचोदयनाचार्यैः यन्न्यायकुसुमाञ्जलौ । उत्पत्तितो वाऽभिव्यक्तितो वाऽभिप्रायतोऽपिवा अनवच्छिन्नवर्णानां नैरर्थक्यमितीरितम् । तत्र नैयायिकमतमुत्पत्तिपदसूचितम् ॥ मीमांसकमतं चाथाभिव्यक्तिरिति कथ्यते । अस्वातन्त्र्यं हि रचनाविशेषे हि तदाशयः ॥ अथाभिप्रायत इति तदौपनिषदं मतम् । सर्वार्थसिद्धौ वेदान्ताचार्योक्तिरवबुध्यताम् ॥ एतदेवहि वेदस्यापौरुषेयत्वनित्यते । प्राक्प्रागुच्चारणाधीनोच्चार्यमाणत्वमेव तत् ॥ नह्येकरूपवाक्यस्य प्रवाहानादितां विना । प्रतिपद्यामहे वेदवाक्येष्वन्यामनादिताम् ॥ प्रतिकल्पं चैकरूपाभिसन्धिः परमेश्वरः । वाक्यं वदत्येकरूपमिति वेदस्य नित्यता ॥ नैतावताऽऽज्ञारूपत्वं वेदवाक्ये विहन्यते । द्योतयत्येव हि विभोरभिप्रायं सनातनम् ॥