भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 487, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 487

तस्माद्बोधात्मकत्वेन बुद्धेः प्राप्ता प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः । वस्तुत्वाद्विविधस्यात्र संभवो दुष्टकारणात् ॥ पौरुषेये तु वचने प्रमाणान्तरमूलता । तदभावे हि तद्दुष्येत् इतरन्न कदाचन ॥ कर्तृमत्त्वे तु वेदस्य सम्यङ्गिथ्यात्ववादिभिः । कर्ता गुणाश्च दोषाश्च महाजनपरिग्रहः ॥ एवमादि विना युक्त्या कल्प्यं, मीमांसकैः पुनः । इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते ॥ तेन नाप्तोपदेशत्वं न स्यादागमलक्षणम् । नाप्तस्य संभवो वेदे, लोके नाप्तात्प्रमाणता ॥ स्वतः सर्वप्रमाणत्वं नचेत्स्याद्दोषदर्शनम् । तेनैव सर्वाक्षेपाणां निवारणमिति स्थितम् ॥ (91) वेदवैलक्षण्यवादः. 1 वेदाद्बुद्धागमस्यायं विशेषस्तन्त्रवार्तिके । निरूपितो विस्तरशः तत्संक्षेपोऽवधार्यताम् ॥ यदेव भवतां गोत्रं तदस्माकमपीतिवत् । आहुः स्वागमनित्यत्वं परवाक्यानुकारिणः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 487, कुल 672 में से · BharatKosha