भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 50, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 50

8 मानमेयरहस्यश्लोकवार्तिके संशयो निश्चयो वाऽत्र विघ्नज्ञानं प्रवर्तकम् । समाप्तिकामो विघ्नज्ञः सोऽधिकार्यत्र बोध्यते ॥ २ प्रधानं मङ्गलं केचित् अदृष्टद्वारतः पुनः । फलं समाप्तिः तत्कामो ह्यधिकारीति जानते ॥ ३ प्रारिप्सितं निमित्तं स्यादाविघ्नेन समापनम् । प्रचयश्च फलं चेति केचिन्नैमित्तिकं विदुः ॥ मङ्गलाचरणे तस्मात्काम्यशङ्का व्यपोद्यते । समाप्तिकामना तु स्यादधिकारिविशेषणम् ॥ ४ परे त्वदृष्टद्वारेण मङ्गलस्य फलं विदुः । विघ्नसंसर्गविरहं समाप्तिस्तु ततः फलम् ॥ ५ चतुर्षु पक्षेष्वेतेषु कंचित्स्वीकृत्य सूरयः । विवदन्ते गुरुलघुविमर्शनविचक्षणाः ॥ प्रथमं परिगृह्णन्ति पक्षं प्राञ्चस्तु तार्किकाः । नव्यनैयायिकानां तु तुरीयः पक्ष ईप्सितः ॥ ६ आद्यपक्षे व्यभीचारं नास्तिकादिनिबन्धने । अन्यथासिद्धिमपि वा विघ्नध्वंसेन ते विदुः ॥ ७ न मङ्गलं महाभाष्ये दृश्यते नापि पाक्षिले । न शाबरे शाङ्करे वा तथेदानींतने क्वचित् ॥ मङ्गलं न निबध्नन्ति ग्रन्थे केचिद्विपश्चितः । कुर्वन्तो वा न कुर्वन्तो न हि तद्वेदितुं क्षमम् ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 50, कुल 672 में से · BharatKosha