मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 526, कुल 672 में से
संदर्भ में पढ़ेंउपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ 4 यो नाम वेदतात्पर्यनिर्णयाय विरच्यते । न्यायाख्यस्सोऽधिकरणमिति व्यवहृतं बुधैः ॥ विषयो विशयश्चैव विचारो निर्णयस्तथा । प्रयोजनं च पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥ सङ्गतिर्विषयश्चैव संशयोत्थानकारणम् । संशयस्य प्रकारश्च तदर्था च विचिन्तना ॥ तस्यां फलफलित्वं च न्यायौ द्वौ पूर्वपक्षयोः । निर्णयस्तत्फलं चेति दशाङ्गानीतरे विदुः ॥ वाक्यस्य विषयत्वं तु यत्कोट्योस्संशयीययोः । उपस्थापकशब्दाभ्यां घटितं सत् तथैवच ॥ सन्न्यायाधीनतात्पर्यनिर्णयादेककोटिकाम् । प्रमिति जनयेत् वाक्यं तत्त्वमित्यवधार्यते ॥ न्यायत्वं च निरुक्ताङ्गपञ्चकाद्यवबोधकम् । वाक्यजातं यथा न्यायवाक्यं शास्त्रान्तरे मतम् ॥ अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका । तद्धेतुज्ञानविषयसम्बन्धः सङ्गतिर्मता ॥ तां प्रसङ्ग उपोद्घातः हेतुताऽवसरस्तथा । निर्वाहकैक्यं कार्यैक्यमिति षोढा विदुः परे ॥