मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 599, कुल 672 में से
संदर्भ में पढ़ेंमुद्रिकाषट्कविज्ञानात् पुनस्तस्यैव धारणात् । अपवर्गफलप्राप्तिर्न ब्रह्मावगमादिति ॥ मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः । भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ॥ कर्णिकां रुचकं चैव कुण्डलं च शिखामणिम् । भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ॥ कपालमथ खट्वाङ्गमुपमुद्रे प्रकीर्तिते । आभिर्मुद्रितदेहस्तु न भूय इह जायते ॥ 4 गीतशास्त्रं मोक्षहेतुरित्यप्याहुर्मुनीश्वराः । याज्ञवल्क्यादयस्तत्र वचनं त्ववधार्यताम् ॥ अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः यथाविधानेन पठन् सामगानमविच्युतम् । सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥ अपरान्तकमुल्लोप्यं मद्रकं प्रकरीं तथा । औवेणुकं सरोबिन्दुमुत्तरं गीतकानि च ॥ ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका । गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ॥ वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । कालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥