मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 619, कुल 672 में से
संदर्भ में पढ़ेंप्रपन्न इन्द्र शरणं सर्वस्य शरणं सुहृत् । इत्यादयः श्रुतिशतं विश्रुतं शरणागतौ ॥ स्मृतीतिहासवचनमनन्तं प्रथितं विदाम् । अतस्त्रैवर्णिकत्वादेः भावोऽभावोऽपि कस्य चित् ॥ नाधिकारः प्रपत्तौ स्यादार्किंचन्यमनाश्रितः । येषां तु भगवद्गीता प्रमाणमिति सम्मता ॥ प्रपत्तिस्साधनं मुक्तेरिति तैरखिलैर्मता । सा परंपरया हेतुरिति सर्वैर्विनिश्चिता ॥ साक्षादपि भवेद्धेतुरिति श्रीवैष्णवा विदुः । प्रपत्तिः द्विविधा तस्मात् स्वतन्त्राङ्गविभेदतः ॥ यद्येन कामकामेन न साध्यं साधनान्तरैः । तेनतेनाप्यते तत्तन्न्यासेनेव महामुने ॥ परमात्मा च तेनैव साध्यते पुरुषोत्तमः । भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने ॥ प्राप्योऽहं नान्यथा प्राप्यः मम कैङ्कर्यलिप्सुभिः । इत्यादिकं वचोऽनन्तं भगवच्छास्त्रविश्रुतम् ॥ 2 अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाञ्चा प्रपत्तिश्शरणागतिः ॥ मुनिना भरतेनेत्थं प्रपत्तेर्लक्षणं कृतम् । त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः ॥ M.R. 73