भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 63, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 63

देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोके उपायैर्बहुधा किल ॥ गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः । भिन्ना हि देशना भिन्ना शून्यताऽद्वयलक्षणा ॥ द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥ 5 चतुःप्रस्थानका बौद्धाः ख्याता वैभाषिकादयः । अर्थो ज्ञानान्वितो वैभाषिकेण बहुमन्यते ॥ सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः । आकारसहिता बुद्धिर्योगाचारस्य सम्मता ॥ केवलां संविदं स्वस्थां मन्यन्ते मध्यमागमाः । प्रत्यक्षमनुमानं च प्रमाणद्वितयं विदुः ॥ 6 दुःखं समुदयं चैव निरोधो मार्ग एव च । आर्यसत्याख्यया बौद्धं तत्त्वमस्ति चतुर्विधम् ॥ दुःखं प्रसिद्धं तन्मूलमपि तच्छब्दशब्दितम् । दुःखहेतुस्समुदयः यः प्रत्ययपदाभिधः ॥ निरोधो मुक्तिरेव स्यात् शुद्धज्ञानमहोदयः । मार्गो भावनया तत्त्वज्ञानं तद्धेतुरुच्यते ॥ यद्भास्करेण भाष्ये स्वे त्वार्यसत्यं विभागशः । निरूपितं तदप्यत्र विशदीक्रियते यथा ॥