भारतकोश
मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)

मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)

Mayamatam of Maya Muni with Hindi Commentary by Shailaja Pandey

मय मुनि (टीकाकार: डॉ. शैलजा पाण्डेय) द्वारा

DevanagariHindipublished395 पृष्ठ

पृष्ठ 187, कुल 395 में से

संदर्भ में पढ़ें
पृष्ठ 187

पञ्चदशोऽध्यायः 卐 पादप्रमाणद्रव्यपरिग्रहविधानम् १६३ पूर्वोत्तरेण पतितं गृहदारु प्रशस्यते। अन्यथा न शुभं विन्द्याद्याम्योपरि निपातनम्।। क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत्। कृताधिवासं विहगैरनिलानलपीडितम्।। गजावरुग्णं च तथा विद्युन्निर्घातपीडितम्। अर्धशुष्कं तथा दारु भग्नशुष्कं तथैव च।। चैत्यं देवालयोत्पन्नं नदीसङ्गमजं तथा। श्मशानकूपनिलयं तडागादिसमुद्भवम्।। वर्जयेत्सर्वथा दारु यदीच्छेद्विपुलां श्रियम्। तथा कण्टकिनो वृक्षान्नीपनिम्बविभीतकान्।। श्लेष्मातकानाम्प्रतरून् वर्जयेद् गृहकर्मणि। आसनाशोकमधुकसर्जशालाः शुभावहाः।। चन्दनं पनसं धन्यं सुरदारुहरिद्रवः। द्वाभ्यामेकेन वा कुर्यात्त्रिभिर्वा भवनं शुभम्।। बहुभिः कारितं यस्मादनेकभयदं भवेत्। एकैकशिंशपा धन्या श्रीपर्णी तिन्दुको तथा। एता नान्यसमायुक्ताः कदाचिच्छुभकारकाः। स्पन्दनः पनस्सत्तद्वत् सरलार्जुनपद्मकाः।। (२५८.३-११) (ग) राजवल्लभमण्डन (५ अ.) में ग्रहणीय एवं गर्हणीय वृक्षों का वर्णन इस प्रकार प्राप्त होता है— त्याज्य वृक्ष— वृक्षं दग्धविशुष्ककण्टकयुतं नीडैश्च बैल्वद्रुमम्। क्षौरं मारुतपातितं च भवने चिञ्चां बिभीतं त्यजेत्।। (५.१६) ग्राह्य वृक्ष— शाकः शालमधूकसर्जखदिरा रक्तासनाः शोभना एकोऽसौ सरलोऽर्जुनस्य पनसः श्रीपर्णिनी शिंशिपाः। हारिद्रस्त्वपि चन्दनः सुरतरु पद्माक्षकस्तिन्दुको नैतेऽन्येन युता भवन्ति फलदाः शाकादयः शोभनाः।। (५.१७) इन ग्रन्थों के अतिरिक्त बृहत्संहिता, समराङ्गणसूत्रधार आदि ग्रन्थों में ग्राह्य एवं त्याज्य वृक्षों की चर्चा प्राप्त होती है।