मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 119, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये द्वितीयपादः ६७ सति; तद्विषयभूतस्य वेदाध्ययनस्य पुरुषार्थानुबन्धित्वाक्षेपप्रमाणाभावाद्देवस्यानर्थक्यं स्यादित्याशङ्कामपाकर्त्तुम्—स्वाध्यायपदोपात्तश्चात्मेत्युक्तम् । अयमभिप्रायः—न तावद- चेतनानां लिङादीनां स्वसम्बन्धिप्रेरणाबोद्धृत्वलक्षणं नियोज्यत्वं मुख्यं युज्यते, प्रवृत्त्या ग्राहकत्वं तु तेषां पुरुषार्थानुबन्धित्वाद्याध्ययनविधिना शक्त्यालोचनेन पुरुषो ज्ञाप्यते स्वारसिकेच्छारहितस्य चादरापरपर्यायग्रहकारित्वं नियोज्यस्यैव दृष्टमित्यौपचारिकमिह नियोज्यत्वम् । अर्थवादान्वयाय शब्दभावनाया विधेयत्वसिद्धयर्थं विवक्षितं तच्चाध्ययन- विधावपि समानम् । तस्य च स्वरूपेण नियोक्तृत्वं स्वाध्यायपदोपात्तत्वरूपेण विधाय- कान्तरसाधारण्येन नियोज्यत्वमित्यौपचारिकभेदाश्रयणात् न विरुद्धमिति । भावयेदिति च विधिः प्रेर्यान्वयात् प्राग्विषयान्वयपक्षे लिङादिप्रेर्यान्वयवशेन व्यापारविशेषानवगमा- त्सामान्यविवक्षयोक्तम् । अत्र भाव्याकाङ्क्षायां यच्छक्यते तदित्यवधारणात् शक्तिप्रदर्शन- पूर्वकं पुरुषप्रवृत्तेर्भाव्यत्वं दर्शयति—तत्रेति । येन लिङादोनां प्रवर्त्तकत्वे शक्तिः, पुरुषस्य च प्रवर्त्यत्वे, तेन कारणेन भावनाया भाव्याकाङ्क्षायां पुरुषप्रवर्त्तनं भाव्यत्वेन संबन्ध्यत इत्यर्थः । प्रवृत्तेः प्रयोज्यव्यापाररूपत्वात्प्रयोज्यान्वयं विना भाव्यत्वासम्भवाच्चेतनं प्रवर्त्तकत्वेन श्रेयस्साधनत्वाक्षेपपर्यन्तत्वसूचनार्थं पुरुषविशेषणम् । प्रेर्यान्वयपूर्वकविषया- न्वयपक्षे तु प्रवर्त्तनाख्ये व्यापारविशेषे एव लिङादेः शक्त्यवधारणात्तत्रैव नियोगकल्प- नायां किंशापेक्षां पुरुष एव पूरयिष्यतीत्याह—अथ त्विति । लिङादिविषया क्रिया प्रवर्त्त- येदित्येवं विशेषरूपेणोच्यते—विधेयतया प्रतिपाद्यत इत्येव योज्यम् । नन्वचेतनत्वाल्लिङादीनां नियोज्यावगमपूर्वकप्रयोजककर्तृत्वानुपपत्तेः कथं तद्वशेन पुरुषप्रवर्त्तनस्य भाव्यत्वाभिधानमित्याशङ्कयाह—यद्यपि चेति । अध्ययनविधिना लिङाद्यध्ययने नियुज्यमानस्य पुरुषस्य कतमं ममोपकारं करिष्यन्तीत्यपेक्षायां प्रवर्त्तनाज्ञा- पनद्वारेण पुरुषार्थसाधनबोधरूपमिति सामर्थ्यालोचनेनावगतौ सत्यां प्रवर्त्तनाज्ञापनमात्र- पर्यवसाने पुरुषार्थसाधनत्वाक्षेपायोगादनुपकारकत्वोपपत्तेर्मातापित्रादिवदाग्रहेणेष्टसाधनेषु कर्मसु प्रवर्त्तयिष्यन्तीति प्रवृत्त्या ग्राहकत्वावगतिमर्हति । तेन लिङादिभिरवश्यं प्रवर्त्तनीय इति लिङादिविषयनियोगावगतिर्या पुरुषस्य भवति; तां लिङादिषु उपचर्य प्रयोजकत्व- व्यवहारोऽयमित्यर्थः । न चैतत्स्वोत्प्रेक्षामात्रेणास्माभिर्लिङादीनां प्रयोजकत्वमुच्यते, किं तु कर्तृवाचिण्वुलप्रयोगदान्यैरपि अभियुक्तैरङ्गीकृतमित्यवसीयत इत्याह—यदि चेति । करणाकाङ्क्षां शक्त्यालोचनेन प्रेरणाज्ञानस्यान्वयं दर्शयति—अथेति । विधेरलौकि- कत्वेन लिङादिप्रतिपाद्यत्वासम्भवमाशङ्क्य प्रवर्त्तनासामान्येन पूर्वोक्तरीत्या सम्बन्धग्रहण- सम्भवात् १ लिङाद्यभिहितेन लक्षणया तत्प्रतिपादनसम्भवप्रदर्शनार्थं पूर्वसम्बन्धानुभवा- पेक्षेणेत्युक्तम् । १. विधिज्ञानं सम्बन्धज्ञानं तयोरित्यर्थः।