मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 125, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये द्वितीयपादः ७३ आह—सर्व्वत्र चेति । तेषामपि स्तावकनिन्दकपदेकवाक्यत्वेन स्तुतिनिन्दार्थत्वसम्भवात्तद्- द्वारेण विधिनिषेधैकवाक्यत्वोपपत्तेः स्तुतिनिन्दापरत्वनिर्णय इत्यर्थः । यत्र तर्हि न किंचिदपि पदं स्तावकं निन्दकं वोपलभ्यते आपो वै शान्ता इत्यादिषु तत्र पारम्पर्येणापि विधिनिषेधैकवाक्यत्वासम्भवात्कथं स्तुतिनिन्दापरत्वनिर्णयः, अत आह—यत्रापीति । तत्रापि वेतसशाखयाऽवकाभिश्चाग्निं विकर्षतीत्यादिविधिसन्निधिवशेन लक्षणया तद्विधेयवेतसावकास्तुतिप्रतीतेर्लक्षितलक्षणया वा विकर्षणस्तुतिप्रतीतेर्विध्येक- वाक्यत्वात्तात्पर्यनिर्णय इत्यर्थः । यद्वैतदधिककाद्वयमेकवाक्यत्वाभिधानोपयोगप्रतिपादनपरतयैव व्याख्येयं विधिनिषे- धैकवाक्यत्वाभावे केषुचित्पदेषु कथंचित्स्तुतिनिन्दाप्रतीतावस्यानर्थक्येनोपपादानपेक्ष- त्वात्परिशिष्टानां पृथग्वाक्यत्वेन स्वरूपमात्रेण पर्यवसानं स्यात् तादृक्पदाभावे च स्तुतिर्वा निन्दा वाशङ्क्यैव न केवलेनैव स्यादिति । ननु विधिनिषेधयोः स्तुतिनिन्दापेक्षायां तदभावे वसन्तादिवाक्येषु साकाङ्क्षत्वाद- प्रामाण्यं स्यादत आह—विधीति । विधिप्रतिषेधयोर्मध्येऽन्यतरदर्शनेन स्तुतिनिन्दयोर्मध्ये ऽन्यतरदनुमायेत्यर्थः । एवं वैदिकार्थवादोपयोगं व्युत्पाद्य स्मृत्यधिकरणवक्ष्यमाणप्रामाण्यविद्यास्थानान्तरगते- ष्थर्थवादेषु तमेव न्यायमतिदिशति—एवं चेति । इतिहासपुराणयोरर्थवादबहुलत्वाद्भारता- दीत्युक्तम्, नन्वध्ययनविधिबोधितपुरुषार्थानुबन्धित्वबलेन वैदिकार्थवादानां श्रौतार्थातिक्रमेण लाक्षणिकस्तुतिनिन्दापरत्वमवधारितम् अत्र तु कथमित्यशङ्क्यात्राऽप्यध्ययनविधिस्थानीयं विधिं दर्शयति—तेषामपि हीति । एतया निषादस्थपतिं याजयेदित्यादिवत् प्रयोज्यव्या- पारत्वमभिप्रेत्य श्रावणविध्युपन्यासः, धर्म्मादीनां साध्यानां साधनप्रतिपत्तिरिति विग्रहः, धर्मादिचतुष्टयसाधनप्रतिपत्तिरुपादानाङ्गभूता, अधर्मादिचतुष्टयसाधनप्रतिपत्तिः परित्या- गाङ्गभूतेति योज्यम् । भारतोपक्रमे ॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् । इति जनमेजयस्य भारतश्रवणप्रवृत्तिसिद्ध्यर्थं धर्म्मादिचतुर्विधपुरुषार्थंतत्प्रतियोगि च शब्द- सूचिताधर्मादिसाध्यसाधनप्रतिपादनपरत्वाभिधानात्सर्वत्र यथासम्भत्रं तत्परत्वमुन्नेयमिति भावः । ननु विधिनिषेधशून्यानां बहुशो भारतादिषु दर्शनात्कथं पुरुषार्थपर्यवसानकल्पन- मित्वाशङ्क्य यथासम्भवं विभज्योपयोगं दर्शयितुमाह—तत्रापि त्विति । शङ्कानिरा- सार्थस्तुशब्दः । दानराजमोक्षाणां धर्मा इति द्वन्द्वगर्भः षष्ठीसमासः । दानस्येतिकर्त्तव्यता- भूतो धर्मो राज्ञोऽनुष्ठेयः, मोक्षस्य साधनमादिशब्देन तपो ब्राह्मण्यायुदयादिसंबन्धि-