मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 159, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये द्वितीयपादः १०७ रिति तन्नाह—यत्त्विति । परस्तादनुष्ठानोत्तरकालं यत्फलं भविष्यति, तत् विधेरुपगतमिति¹ विध्याश्रयं तत्प्रमाणकमित्यर्थः । उपसंहरति—तस्मादिति । प्रमाणान्तरेष्वपेक्षितार्थ- लाभेनोपायासत्यत्वं व्यवहारं दर्शयतीत्याह—न हीति । शुक्तिकामदृष्टं सत्यं पारमा- र्थिकं रजतं येन स तथोक्तः, विफलारम्भताभिसन्धानम् । अथालम्बनसद्भावात्तत्र व्यव- हारसिद्धिः, तदत्रापि समानमित्याह—शुक्तिकावत्त्विति । कथं पुनरनुखिन्नायामित्यस्यैव चोद्यस्येह निरालम्बनान्वाख्यानासम्भवाभिप्रायकत्वं कथं पुनर्निरालम्बनमन्वाख्यायत इत्य- नेनाशङ्क्यं नित्यः कश्चिदित्यादिना भाष्येण त्रिविधालम्बनाभिधानेन निराकृतम् । तद्व्या- चष्टे—यथेहेति । यथेत्यनेनासद्वृत्तान्तान्वाख्यानं स्तुत्यर्थेनेत्यादेः परिहारस्य सर्वसदन्वा- ख्यानविषयत्वं सूचितम् । अत एव पूर्वपक्तिकायां सर्वत्रेत्युक्तम् । व्याख्यात्रयस्य निरूपणम् वृष्ट्यादीनां वपात्वं मध्यवर्त्तित्वसारत्वलक्षणगुणयोगेनोपपादयति—वाय्वादीनामिति । वृष्ट्युत्पत्त्यवसानयोर्वाय्वायत्तत्वात्तन्मध्यवर्त्तित्वं सनेम्यभवं मरुतो जुनन्तीत्यादौ च वृष्टि- हेतुत्वेन वायुस्तुतौ । तत्सारत्वं वृष्टेः । अवकाशाभावे वायोरवृत्तेस्तन्मध्यवर्त्तित्वं । वायु- रहितस्य चापवरकाद्याकाशस्योष्मदुःखोत्पादकत्वात् । तत्सारत्वं रश्मेरादित्यावयवत्वात् । तन्मध्यवृत्तित्वं रश्म्यायत्तत्वाच्च प्रकाशकत्वस्य तत्सारत्वम् । तामग्नावित्यादिभाष्यं व्याचष्टे—तामग्नाविति । वैद्युतस्याबिन्धनत्वप्रसिद्धेस्तत्र वृष्टेर्निक्षेपकल्पना । ऋषीस- शब्दस्य शरीरवाचित्वात्तदन्तर्वर्त्यग्निरार्षीसोऽभिधीयते तस्मिन्वायोर्निक्षेपकल्पनाया- मालम्बनमन्तश्चरत्वसामान्यम्, आदित्यो वाऽस्तं यदग्निमनुप्रविशतीत्यादि दर्शनात् । स्वरूपेण स्वर्गस्थस्यादित्यस्य भूमिष्ठाग्निप्रवेशायोगाद्रश्मिप्रवेशकल्पना । बीजादिष्वज- शब्दप्रयोगे निमित्तमाह—ततोऽज इति । व्रीह्यादेरन्नस्योष्मणा विनाऽप्ररोहाद्दर्शनात्तस्य च तेजोगुणत्वादाम्नयो ह्योषधय इति च लिङ्गादग्न्युदकसंयोगजत्वावगतेस्तत्सामान्यात् वृष्टिवैद्युतसंयोगस्य कारणत्वाभिधानम् । जाठराग्निपाचितस्यान्नरसस्य व्यानाख्येन वायु- विशेषेणाबीजभूतेभ्यो विण्मूत्रादिभ्यो विविक्तीकृतस्य चरमधातुरूपेण परिणामाद्वायोर्बीज- कारणत्वाभिधानम् । वीरुधादेर्व्रीह्यादिवदेव भौमाग्निजन्यत्वान्निदाघकाले च प्ररोहदर्शने- नादित्यरश्मिजन्यत्वावगमाद्रश्म्यग्निसंयोगजन्यत्वं लभेः प्राप्तौ स्मरणात् । तदर्थतयोपयु- ज्येति पदं व्याचष्टे—तमालभ्येति । अन्नादिसेवनस्य प्रजापशूत्पत्तिकारणत्वाभिधाना- लम्बनमाह—सर्वप्रजानामिति । तन्निरासः एतच्च व्याख्यानत्रयं वैकल्पिकं युगपद्दर्शितम् । तद् दूषयति—एतस्मिंस्त्विति । प्रक्रमो रीतिर्व्याख्यानप्रकार इति यावत् । एवशब्देन स्तुतिसिद्धयर्थं सालम्बनत्वानुरोधेन प्रधान- भूतस्तुतिबाधोऽङ्गगुणविरोधन्यायाद्युक्त इति सूचितम् । १. रुपरोति २ पु० पा० ।