मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 189, कुल 804 में से
संदर्भ में पढ़ें१९ ] प्रथमाध्याये द्वितीयपादः १३७ जर्तिलचिन्ताथ बाधप्रसङ्गेन करिष्यमाणत्वादथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च गवीधुकाश्चेति अस्य निषेधार्थत्वेऽपि किं जर्तिलगवीधुकानामनुकल्पत्वद्योतनार्थोऽयं निषेधे विकल्पार्थो वेतिचिन्तान्तरम् । अनुकल्पकत्वपक्षे बाधानापादकत्वाद्विकल्पपक्षो तदा- पादकत्वात्कल्प्यमिति भावः । कृत्वा चिन्तात्वाभावेऽपि चौदुम्बराधिकरणव्युत्पादित- मप्यर्थवादत्वमुदाहरणविशेषेष्वाक्षिप्य समाधानाय सा चिन्तेत्येवं ग्रन्थो व्याख्येयः । अस्मिन् व्याख्याने पाष्ठस्यापि पुराकल्पोदाहरणविषयस्य विचारस्यानेनैव न्यायेन कृत्वा चिन्तात्वाभावेऽपि पौनरुक्त्यं परिहृतं भवति । एवंशब्दश्च यथाधिकार- प्रसङ्गेन पष्ठगता चिन्ता एवमेपापीत्येवन्नेया । तत्सिद्धिसूत्रस्थाप्यपौनरुक्त्यमाह— तत्सिद्धिसूत्रे त्विति । मीमांसाप्रक्रियामात्रेण विध्यर्थवादचिन्तेति भावः । सर्वविधि- सरूपाणामौदुम्बराधिकरणेनैवार्थवादत्वसिद्धौ पुराकल्पाद्युदाहरणेषु कृत्वा चिन्तानुपन्या- सादाक्षेपहेतुत्वाभावाच्च पौनरुक्त्यापरिहारेण परिहारतोषात्प्रकारान्तरमाह—अथ वेति । पृथक् फलपदसद्भावेऽपि फलविधौ निराकृते तदभावे फलविध्याशङ्काया दूर- निरस्तत्वेनाऽत्रापि अपरितोषाच्चतुर्थं प्रकारमाह—अथ वेति । परार्थविज्ञाने कारणमाह— अत्र हीति । स्वातन्त्र्येणेति जुहूसम्बन्धनिरपेक्ष्येणेत्यर्थः । एतदेवोपपादयितुं सामान्य- न्यायान्तावदाह— सर्वत्र हीति । प्रकृते योजयति—तदिहेति । किं सम्बध्यतामित्यनार- भ्याधीतत्वेन पर्णमयीत्वस्य प्रकृताश्रयालाभादिति भावः । वाक्येनाश्रयदानमाशङ्क्य निरस्यति—जुहूरिति । अभ्युपगम्यापि जुहूसम्बन्धं नैराकाङ्क्ष्यास्तीत्याह—सापि चेति । अतः फले पर्णमयीत्वविध्ययोगाज्जुह्वर्थत्वेन सिद्धो विधिरित्युपसंहरति— तस्मादिति । पर्णमयीत्वेन जुहूं भावयेदिति वचनव्यक्तिरितरशब्देनोक्ता । जुह्वनुवादेन पर्ण- मयीत्वस्य विधौ सिद्धे यथापारार्थ्यनिर्ज्ञातं भवति तथा दर्शयति । तत्र चेति । एवं निर्ज्ञातपारार्थ्यस्यापि पर्णमयीत्वस्यापापश्लोकश्रवणात्मकफलश्रुतेः फलार्थतापि दध्यादि- वदस्त्विति पर्णमय्यधिकरणे पूर्वपक्षं कृत्वा सकृच्छ्रुतया पर्णत्वजातेर्जुह्वङ्गत्वेन निरा- काङ्क्षीकृताया द्व्यर्थत्वायोगात्फलश्रुतिरर्थवादमात्रमिति सिद्धान्तः करिष्यत इत्याह—ततश्चेति । औदुम्बरत्वस्य तु सोमा पौष्णं त्रैतमालभेत पशुकाम इति विकृतपशुप्रकरणे श्रुतस्यातिदेशप्राप्तनिर्ज्ञातजातिविशेषयूपार्थत्वेन विध्ययोगात्पारार्थ्यान्वगतेः पर्णमय्य- धिकरणविषयत्वन्नास्तीत्याह—इह पुनरिति । एतदेव प्रश्नपूर्वकमपपादयति—कथमिति । नन्वाश्रयालाभात्कथमस्य फलविधिराराङ्क्येत अत आह—यापि चेति । प्रकृतावग्नीषोमीये पशुनियोजनाव्यकर्मसम्बन्धितया विहितस्य यूपस्यात्र चोदकप्राप्तस्यौदुम्बरजात्याश्रयत्वेन ग्रहणादित्यर्थः । कर्मसम्बन्धाभिधानत्वमाश्रययोग्यताप्रदर्शना्थम् । अतः सिद्धं पर्णमय्यधि- करणेनापौनरुक्त्यमौदुम्बराधिकरणस्येत्याह—तेनेति ।