मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 207, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये द्वितीयपादः १५५ श्रपयितव्यः, स दैवत्तत्वायैति (तै०सं०२।६।३) इति । यदि स्तुतिर्दर्शपूर्णमासयोरेव शृतः स्ताविष्यते । तथा सम्भवन्नपकर्षो न कल्प्येत । अपकृष्यते इत्यपकर्षः । विधिपक्षे तु यत्र नैर्ऋतः, तत्र विदग्धता नीयेत । तथा सति प्रकरणं बाधितं भवेत् । दर्शपूर्णमासकर्म प्रति नैर्ऋताभावाद् विदग्धविधानमनर्थकं स्यात् । तस्मात्स्तुतिरेव ॥ २४ ॥ भा० वि०---फलविधिसरूपाणामर्थवादत्वे हेत्वन्तरं दर्शयितुं प्रकरणे चेति सूत्रम् । तत्र चशब्दार्थमाह--इतश्चेति । न केवलमप्सु योन्त्याद्यर्थवादसामान्यादि- तरेषां स्तुतित्वं वाक्यान्तरसामान्यादपीत्यर्थः । किं तद्वाक्यान्तरमिति मन्वानः पृच्छति---कुत इति । वाक्यमुदाहरति--इदमिति । कथमस्य वाक्यस्य स्तुतित्वं येन तत्सामान्यादितरेषु तथात्वं स्यादित्याशङ्क्य प्रकरणे च सम्भवन्निति व्याचष्टे--यदीति । शृतः पुरोडाशादिः स्ताविष्यते, स्तुतो भविष्यति प्रकरण- निवेशाय स्तुतित्वाश्रयणं युक्तमिति भावः । ननु माभून्निवेशः पूषानुमन्त्रणमन्त्रवदुत्कृष्यतामत आह--तथेति । प्रकरण- विनिवेशितया सम्भवन्नित्यर्थः, नन्वयमपकृष्यमाणः कल्प्यतेऽर्थवादः नापकर्षस्त- त्राह--अपकृष्यत इति । ननु विधित्वेऽप्यनपकृष्यमाणोऽस्त्वित्याशङ्क्य, तत्र किं यथाश्रुतैव वचन- व्यक्तिः यो विशेषेण दग्धः स निर्ऋतिदेवताकः कार्य इति, किं वा यो नैर्ऋतस्स विशेषेण दह्य इति व्यत्ययेन । तत्राद्ये कल्पेऽनेन दर्शपूर्णमासप्रकरणगतेन विध्यु- द्देशेन देवतान्तरविधानात् उत्पत्तिवाक्यशिष्टाग्न्यादिदेवतापकर्षणं स्यात्, तच्च सम्भवत्प्रसजदपकर्षणं सति गत्यन्तरे न कल्पनीयमिति सूत्रयोजनया दूषणं वक्तव्यमिति मत्वा द्वितीये दोषमाह--विधीति । नयने दोषमाह - तथेति । ननु किमिति नीयते येन प्रकरणाम्नानविरोध इत्याशङ्क्य विधानार्थक्य- मित्यादि सूत्रावयवं व्याचष्टे--दर्शेति । सूत्रे तमिति प्रकरणिनोऽर्थस्थस्य परा- मर्शः दर्शपूर्णमांसयोर्निर्ऋतिदेवताभावात्नैर्ऋतानुवादेन विदग्धताविधानमनर्थक- मित्यर्थः, तेन प्रकरणे निवेशाय विदग्धवाक्यस्य स्तुतित्वे फलविधिसरूपाणा- मपि तथैव स्तुतित्वमिति मत्वोपसंहरति--तस्मादिति ॥ २४ ॥ त० वा०-विधिपक्षे चायमपरो दोषो यदि तावद्यथावस्थितवाक्यग्रहणं ततः प्रकरणगतविदग्धोद्देशेन देवतान्तरविधानादुत्पत्तिवाक्यशिष्टदेवतापकर्षणं स्यात्, इयं वा तामप्यपकर्षतीत्यपकर्षः । तत्र नैमित्तिकत्वादभ्युदितेष्टिवद्वाधोऽपि कल्प्येत, यदन्यथा न सम्भवेत्, सति तु सम्भवे न युक्तमेतत् । अथैतद्दोषभीतेरर्थं- लभ्यवचनव्यक्त्यन्तरं व्यवहितकल्पनयाऽऽश्रीयेत यो नैर्ऋतः स विदग्धः कर्तव्य इति । ततः प्रकरणे नैर्ऋताभावाद्यत्रासौ विहितस्तत्र विदग्धता नीयेत । तत्र प्रकरणं बाध्यते । न चाबाधसम्भवे तद्युक्तम् अतोऽर्थवादत्वादनपकर्ष इति ॥ २४ ॥