भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 241, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 241

३१ ] प्रथमाध्याये द्वितीयपादः १८९ कार्यस्यासम्भवात्, अर्थे कार्यं विज्ञायते । मन्त्राणां तु शब्द एव सम्भवति । अवश्यं ह्यर्थप्राधान्यपक्षेऽपि पुरुषः शब्दे नियोक्तव्यः । तद्व्यापारोत्तरकालत्वादर्थाभिधा- नस्य । तस्माद्रूपमेवाङ्गम् । तथा च तदर्थशास्त्रादीन्युच्यन्ते । परिहारसूत्रक्रमानुरोधेन विपर्यस्तान्युदाहरणान्यभ्रयादानाप्रभृति दात- व्यानि । भाष्यकारस्तु यथातथोदाहृतैरपि कार्यसिद्धिं मत्वैवमुपन्यस्तवानुरुप्रथा उरुप्रथस्वेत्यादि । यथा, साक्ष इति । नीलीरोगाद्युपहतेन्द्रियस्य चक्षुरस्त्येवेति परैर्दृश्यते, परेण तु नीयमानमुपलभ्य न पश्यतीति ज्ञायते, तथा मन्त्ररूपमालो- चयतामर्थप्रकाशनशक्तिर्नास्तीति गम्यते । ततश्चार्थातन्त्रत्वम् । अन्यथा स्वय- मेव विनियुज्येत । नन्वर्थवादाथंमिति । लिङ्गप्रकरणानुमितमन्त्रविधिस्तुत्यभिप्रायम् । न हीतिच्छेदः । विधिनेकवाक्यतयाऽर्थवादाः स्तुत्यर्थाः कल्पिताः । प्रदेशान्तर- स्थस्य तु प्रत्यक्षस्याऽऽनुमानिकस्य वा विधेरात्मनः समीपेऽर्थवादमपश्यतः स्वयं प्ररोचनाशक्त्याविभविन व्यावॄत्तापेक्षत्वान्न दूरस्थया स्तुत्या कार्यम् । तथाऽ- भ्यादाने रूपादेव प्राप्तत्वान्मन्त्राणां 'तां चतुर्भिरादत्ते' इत्यनर्थकं वचनम् । चतुःसंख्यामपि ब्रुवदेतन्मन्त्रगतामेव ब्रूयान्न क्रियागताम् । न ह्यन्यगुणोऽन्य- गामी भवति । न च निष्क्रियत्वात्कर्माङ्गत्वेनोपदेष्टुं शक्यते । तेनैवं वाक्यं भवेद्य एते चत्वारः, तैरभ्यादानं कुर्यात्ते च प्रागेव वचनाच्चत्वार इत्यानर्थ- क्यम् । क्रियानङ्गत्वादेव च संख्यायाः । समुच्चयशब्दाभावाच्च प्रत्येकं च सामर्थ्याद्विकल्पः प्रसज्यमानो न शक्यो वारयितुम् । अस्मत्पक्षे पुनर्वचनगम्य- त्वाददृष्टस्य न चतुर्भ्यः प्रागस्तित्वे प्रमाणमिति युक्तः समुच्चयः । उभयोरपि तावद्रशनयोरश्वगर्दभरशनादानमर्थप्राप्तत्वान्न विधीयते । यदि मन्त्रोऽपि रूपात्प्राप्तः, अनर्थकं वचनम् । परिसंख्येति परेवर्जनार्थत्वात्- द्विषया बुद्धिरभिधीयते । साऽपि गर्दभरशनाया आदाने वा स्यान्मन्त्रे वा । उभयथा च त्रिदोषी । विधिपरः सन्न गृह्णात इति स्वार्थं जह्यात् । परस्य च वाक्यस्य गर्दभरशनां नेत्यस्यार्थे कल्पेत । प्राप्तं च रूपादर्थाद्वा मन्त्रमादानं वा बाधेत । अदृष्टार्थत्वे त्वन्धन्यायेन, तत्रैव नीयते, तत्रैव वर्तिष्यते । यदि चाश्वाभिधानीमिति सम्बन्धः स्यात्ततः परिसंवक्षीतापि, न त्वसावस्ति । कार- काणां क्रियापरिहारेणान्योन्यसम्बन्धाभावात् । तेन वाक्यमपि क्रिययैव सम्ब- ध्नीयात् । एका च सा । प्रकरणादपूर्वसंयोगश्चाविशिष्टः तस्मान्न परिसंख्या । प्रयोजनं कथयति । अतो न प्रमाणं बर्हिरित्यादि । तदा हि महाप्रयोग- वचनेन सर्वे मन्त्राः केवलप्रधानाथास्तत्तत्प्रयोगाद्बहिर्भाविवृत्तयो नाङ्गैः सम्बध्येरन् । पाठक्रमानुरोधात्तु तदाऽपि नैव व्युत्क्रमेण प्रयोगः । कर्मण्यनादृत्य सकृदेवा- नुवाकमध्यायं वा पठित्वाऽनुष्ठीयते ।

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 241, कुल 804 में से · BharatKosha