भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 261, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 261

३३ ] प्रथमाध्याये द्वितीयपादः २०९ अतः यज्ञ का विषय एवं यज्ञाङ्गों का प्रकाश कर ही मन्त्रोच्चारण सार्थक होता है। इसलिए मन्त्रों के स्वार्थ में आनर्थक्य की प्रसक्ति नहीं है। फलतः, अदृष्ट=अपूर्व ही मन्त्रों का प्रयोजन नहीं है। “अवशिष्टः”=विलक्षण नहीं, 'तु' = किन्तु, तु शब्द पूर्वपक्ष के निराकरण का सूचक है। “वाक्यार्थः” = वाक्य का अर्थ। [वैदिकवाक्यों का अर्थ लौकिक प्रयोग से विलक्षण नहीं है।] लौकिक और वैदिक दोनों स्थलों में वाक्यार्थ एक ही तरह अर्थ का प्रकाशक है ॥ ३२ ॥ अथ किं भवच्छास्त्रमनर्थकमेव ? न हि— गुणार्थेन पुनः श्रुतिः ॥ १. २. ३३॥ शा० भा०—यदुक्तम्, 'तां चतुर्भिंरादत्त' इति समुच्चयशब्दाभावान्न समुच्च- यार्थमिति। चतुःसंख्याविशिष्टमादानं कर्तव्यमिति वाक्यादवगम्यते। तदेकेन मन्त्रेण गृह्णन् यथाश्रुतं गृह्णीयादिति ॥ ३३ ॥ भा० वि०-परस्त्वगृहीताभिसन्धिराह—अथेति। तद्विनियोजकशास्त्र- मनर्थकं किम्, नैवानर्थक्यं युक्तमध्ययनविधिपरिग्रहविशेषादिति भावः। सिद्धान्ती स्वाभिप्रायं विवरीतुं सूत्रमवतारयति-न हीति। सूत्रं व्याख्यातुं नन्वर्थाभिधानेनेत्यादिनोक्तां शङ्कामनुवदति-यदुक्तमिति। देवस्य त्वेत्यादीना- मादानकरणत्वस्य लिङ्गादेवावगतेः तेषां चतुष्ट्वस्य चान्तरेण वचनमवगमात् समुच्चयः परिशिष्येत तस्य च चशब्दाद्यभावेनासम्भवात् वचनानर्थक्यमित्यर्थः, तदयुक्तमिति परिहारप्रतिज्ञां हृदि निधाय गुणार्थेनेत्यादिव्याचक्षाणो हेतुमाह- चतुःसङ्ख्येति। इह हि चतुःसङ्ख्याविशिष्टमन्त्रकरणकमादानं कर्तव्यमिति वाक्यादवगम्यते, तत्र यद्यप्यादानमर्थप्राप्तं मन्त्राश्च प्राप्ताः सामर्थ्येन, तथाप्य- नन्यलभ्यः शब्दार्थ इति न्यायेन चतुःसङ्ख्याकमन्त्रकरणत्वमात्रमनेन प्रतिपाद्य- मिति गम्यते, तस्माच्च शब्दाद्यभावेऽपि चतुःसङ्ख्यालक्षणगुणविधानेन समुच्च- यार्थत्वात् पुनः श्रवणस्य नानर्थक्यमिति हृदयम्। ननु लिङ्गबलादेकैकस्य मन्त्रस्यादानकरणत्वावगतेः कथं समुच्चयसिद्धि- रित्याशङ्क्य श्रुतिविरोधे लिङ्गस्याभासत्वान्मैवमित्याह-एकेनेति ॥ ३३ ॥ त० वा०—यद्यपि मन्त्राः प्राप्ताः सामर्थ्येन, तथाऽपि चतुःसंख्यामादाने विधास्यति। तत्रारुणैकहायनीन्यायेन परस्परनियमे सति मन्त्रगतचतुःसंख्या- विशिष्टमादानं चोदितं समुच्चयाहते कर्तुं न शक्यत इत्यर्थात्समुच्चयफलम्। १४