भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 299, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 299

१ ] प्रथमाध्याये तृतीयपादः २४७ मन्वादीनामपि अतीन्द्रियार्थदर्शित्वाभावस्य प्रथमपाद एव सिद्धत्वादित्यर्थः, यदि चाष्टकाफलस्य विश्वजिन्यायावगतस्य निरतिशयसुखरूपस्य स्वर्गस्य मर्दनादिफलवदानन्तर्यं स्यात् ततः प्रत्यक्षेणापि साध्यसाधनसंबन्धो गम्येत, न त्वेतदस्ति तथाविधसुखस्य मनुष्यैरनुभवितुमयोग्यत्वादिति दर्शयितुं मनुष्या इत्युक्तम् । न द्वितीयः इत्याह - जन्मान्तरेति । यदि साधनावस्थायामनुभूतं फलावस्थायां स्मर्येत ततोऽस्येदं फलमिति साध्यसाधनसंबन्धः प्रतिसन्धीयेत । न चैतदस्ति निश्शेषसंस्कारोच्छेदिमरणान्तरितत्वेन स्मरणायोग्यत्वादित्यर्थः । किं तर्ह्यनुमीयते इत्यपेक्षायां पारिशेष्याच्चोदनैवेत्याह-ग्रन्थस्त्विति । ननु मन्वादिषु ग्रन्थस्यापि चोदनापरपर्यायस्य कथमुपपत्तिरित्याशङ्क्य कर्तृ- सामान्यादिति सूत्रावयवं व्याचष्टे-कर्तृसामान्यादिति । मन्वादीनां वेदसंयो- गोपपत्तौ हेतुस्त्रैवर्णिकानामिति त्रैवर्णिकत्वमुपपादयितुं स्मृतिवैदिकपदार्थयोः कर्तृसामान्यादिति । ये ह्यग्निहोत्रादिवैदिकपदार्थाननुतिष्ठन्ति, त एव मन्वादयः स्मृतिप्रणेतार इति तेषां त्रैवर्णिकतया वेदसंयोगोपपत्तौ तन्मूलता स्मृतेरनुमीयत इति अभिसन्धिः । अनुपलब्धिविरोधान्न चोदनामूलत्वकल्पना युक्तेति चोदयति- नन्विति । नोपलभन्त आधुनिका इत्यर्थः । न तावदनुपलब्धिमात्रमभावं गमयति; अतिप्रसङ्गात्; विप्रकीर्णानैकशाखाप्रकरणस्थत्वे च योग्यानुपलब्ध्यभावान्ना- नुपलब्धिविरोध इति मन्वानः परिहरति-अनुपलभमाना अपीति । उपलभ्य- मानानामेव वाक्यानामिदमत्रेति विशेषस्मरणाभावमात्रत्वादनुपलब्धिरेवासिद्धे- त्याह-विस्मरणमपीति । एवं कारणसंभवेन पूर्वविज्ञानसंभवमुपपादयितु- मुपसंहरति-तदिति । स्मर्तॄणां त्रैवर्णिकतया वेदसंयोगित्वेन पूर्वविज्ञान- स्योपपन्नत्वाद्भेदानुमानमुपपद्यत इत्यर्थः । एवमविशेषतः स्मृतीनां श्रुतिमूल- कत्वमुक्त्वा, अष्टकास्मृतेः लिङ्गमूलतामप्याह-अष्टकेति । रात्रि धेनु- मिवायती संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गल्यष्टकायै सुराधसे स्वाहेति मन्त्रशेषः । तत्र चाष्टकाये सुराधस इति स्पष्टमष्टकालिङ्गत्वे अस्त्वदृष्टार्थेषु अष्टकादिवाक्येषु अप्रामाण्याशङ्का दृष्टार्थेषु तु गुर्वनुगमनादिवाक्येषु सापि न संभवतीति विशेषमाह-तथेति । ये ह्युपस्थितमुपस्थितं निमित्तमासनोत्थानगमनादिरूपं प्रति नियम्यन्ते ते प्रत्युपस्थितनियमा नीचासनप्रत्युत्थानगमनादयः तथाविधाचारा विद्यन्ते, येषामर्थतया येषां स्मृतिग्रन्थानामिति विग्रहः गुर्वनुगमनादिनियमस्य वैदिक- मूलतया वैदिकत्वे सत्यपि दृष्टार्थत्वरूपमतिशयं वक्तुमेवकारः, दृष्टार्थमुपपादयति- गुरोरिति । अर्थग्रन्थिभेदिनश्चेति निगूढार्थविवरणनिपुणतया न्यायानां नैर्मल्य- मुक्तम्, गुर्वंनुगमनेऽपि लिङ्गदर्शनमाह-तथा चेति । यस्माच्छ्रेयानश्वः पापीयसा गर्दभेनानुगन्तव्यः, तस्मादेव लोके श्रेयांसं श्रेष्ठं पूर्वं यन्तम् अग्रे गच्छति पापीयान्