मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 321, कुल 804 में से
संदर्भ में पढ़ें१ ] प्रथमाध्याये तृतीयपादः २६९ प्रतिभान्त्यः त्वयं पुंसामपूर्वा ह्युपपत्तयः । भ्रान्ति बहुमताः सत्यः कुर्युरज्ञानबोधनात् ॥ २१ ॥ जगत्सृष्टिप्रलयादिज्ञानं वेदपूर्वकमेवेति वार्तिकमतस्योपसंहारः । सर्वासु तु प्रदर्शितासु स्वातन्त्र्येण विशोधयन्तः काश्चिदुत्सृज्यान्याः प्रमाणी- करिष्यन्ति । यदपि च नित्यानित्यपृथक्त्वैकत्वसामान्यविशेषव्यतिरेकाद्येकान्त- प्रतिपादनं तदपि पक्षपातादृतेऽन्यतरांशनिरूपणाशक्तेः । अवश्यं च सर्वात्मकवस्तु- युगपद्ग्रहणासम्भवात्तद्भागोपनिपातिपदविषयविवेकर्थमेकैकनिरूपणमादरेण कर्त- व्यम् । अन्यथा येऽनवाप्तसामान्यविशेषाद्युपपत्तयः पुरुषाः ते पदप्रतिपाद्यं निष्कृष्टं वस्तुभागं लोकमात्रालोचनेन नैवाध्यवस्येयुः । मन्त्रार्थवादोपात्ताश्च स्तुतिनिन्दा- स्तत्तन्नित्यानित्यैकपृथक्त्वैकान्तमाश्रित्य तत्र तत्र विधिप्रतिषेधाङ्गत्वेन प्रवर्त- मानाः पक्षपातप्रतिपादितवस्तुधर्मवैचित्र्यादृते निरालम्बनाः स्यु । याश्चैताः प्रधानपुरुषेश्वरपरमाणुकारणादिप्रक्रियाः सृष्टिप्रलयादिरूपेण प्रती- तास्ताः सर्वा मन्त्रार्थवादज्ञानादेव दृश्यमानसूक्ष्मस्थूलद्रव्यप्रकृतिविकारभावदर्शनेन च द्रष्टव्याः। प्रयोजनं च स्वर्गयागाद्युत्पाद्योत्पादकविभागज्ञानम्। सर्गप्रलयोपवर्णन- मपि दैवपुरुषकारप्रभावप्रविभागदर्शनार्थम् । सर्वत्र हि तद्बलेन प्रवर्तते, तदुपरमे चोपरमतीति विज्ञानमात्रक्षणभङ्गनैरात्म्यादिवादानामप्युपनिषदर्थवादप्रभवत्वं विषयेष्वात्यन्तिकं रागं निवर्तयितुमित्युपपन्नं सर्वेषां प्रामाण्यम् । सर्वत्र च यत्र कालान्तरफलत्वादिदानीमनुभवासंभवस्तत्र श्रुतिमूलता । सांदृष्टिकफले तु वृश्चिक- विद्यादौ पुरुषान्तरे व्यवहारदर्शनादेव प्रामाण्यमिति विवेकसिद्धिः ॥ २ ॥ ( इति वार्तिकमतेन स्मृत्याचारप्रामाण्याधिकरणम् ॥ १ ॥ ) न्या० सु० — अत्र भाष्यकारेण प्रमाणं स्मृतिरिति सौत्रं प्रमाणशब्दं सिद्धान्तप्रतिज्ञा- नार्थत्वेन व्याख्याय, विज्ञानं हि तत्किमित्यन्यथा भविष्यतीति करणव्युत्पन्नेन विज्ञानशब्देन विज्ञानोत्पादकत्वं हेतुत्वेनोक्तं तद्व्याचष्टे— सर्वथेति । पक्षद्वयेऽपि विज्ञानोत्पादकत्वं तावदविप्रतिपन्नमिति हेतुत्वोपपत्त्यर्थं दर्शयितुम्— सर्वथेत्युक्तम् । मन्वादिस्थानां स्मरणानां पुरुषान्तरं प्रति ज्ञानोत्पादकत्वाभावमाशङ्क्य, निबन्धनद्वारेण ज्ञानोत्पादकत्वं सूचयितुम् — सन्निबन्धना इत्युक्तम् । विद्यमाननिबन्धना इत्यर्थः । शोभनार्थेन वा सच्छब्देन साधुनि- बन्धनत्वाभिधानादसाधुशब्दभूयिष्ठनिबन्धनत्वेन शाक्यादिवन्निबन्धनान्मन्वादेरप्रत्ययितत्वानुमानं प्रत्युक्तम् । स्मृतिशब्दस्य धर्मशास्त्रेष्वेव प्रसिद्धत्वात्पुराणादीनां प्रामाण्यमिह न प्रतिपाद्यत इति कस्यचिच्छङ्का स्यात्तन्निवृत्त्यर्थं वेदातिरिक्तसमस्तविद्यास्थानविषयत्वं दर्शयितुम् — शेषाणि च विद्यास्थानानि । इत्युक्तं भाष्यकारेण ‘पूर्वविज्ञानस्य नास्ति कारणाभावादिति कारणाभावेन स्मृतिमूलभूतविज्ञानामावमप्रामाण्यहेतुं पूर्वपक्षोक्तमनुभाष्य तन्निराकरणार्थत्वे- नानुमानं स्यादिति सूत्रावयवो अस्या एव स्मृतेरित्यादिना ग्रन्थस्त्वनुमीयत इत्यन्तेन