मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 385, कुल 804 में से
संदर्भ में पढ़ें४ ] प्रथमाध्याये तृतीयपादः ३३३ वाससा छादयन्तीति चक्षुर्मुखानाच्छेदनेऽपि शास्त्रार्थसम्पत्तिः प्रसिद्धा, तथात्रापि भवतीत्याशयः । ननु सर्वशब्दाभावेऽपि परिशब्देनापि सर्वशब्दार्थसम्पत्तेर्विरोध इत्याशङ्क्याह— यदीति । औदुम्बर्याद्युत्तरदेशे पृष्ठेन तां स्पृशतोदङ्मुखेनोपविष्टेनोद्गातव्यं तेन चौदुम्बरी- मध्यस्योत्तरभागे द्वित्राङ्गुलमात्रं स्पृश्यते तदनुरोधेन चोत्तरभागतो मध्ये द्वित्राङ्गुलं विमुच्यते, सर्ववेष्टनेऽपि परिशब्दार्थसम्पत्तेरविरोध इत्यर्थः । एतदेव श्लोकद्वयं यथाक्रमं श्लोकद्वयेन विवृणोति — सर्वेति । भाष्यकारेण गौरवात्कस्मिंश्चित्सूत्रे, कल्पे वा सर्वशब्दो भविष्यतीति कल्पनां निराकर्त्तुम्—न हीत्युक्तम् । सर्ववेष्टनवचने हि कर्णयोर्वेष्टनं कृत्वा वंशो निधेयः, मूलं च वेष्टयित्वा निखातव्यं स्यात्, न चैवं याज्ञिकाः कुर्वन्ति । परिशब्दस्तु समन्तार्थः सर्वतो देशवेष्टनं ब्रूते । न कृत्स्नाया इत्यौदुम्बरीमध्योत्तरभागा द्वित्राङ्गुलवर्ज्जित- सर्वौदुम्बरीवेष्टनेऽप्यर्थवानित्यर्थः । हेतुदर्शनोदाहरणत्वमप्यस्य न सम्भवतीत्याह — लोभमूलं चेति । यदि तर्हि शब्दार्थ- योर्यत्तदित्यव्यये मूलाग्रयोश्च वंशाधारयोः कर्णयोः परिधाने वेष्टने दीर्घवासोलाभाल्लोभमूले तदनुष्ठाने याज्ञिकाचारविरोधः स्यादित्यर्थः । अयं चापरोऽचारविरोधो लोभमूलत्वे प्रसज्येतेत्याह—अन्तरीयेति । पूर्वापरकाययो- रन्तरस्य, मध्यस्य परिधानार्थमधोवासो नान्तरीयकदेशस्य कल्पयित्वान्तरीयतामाचामे- दिति, प्रयोगदर्शनादन्तरीयशब्देनोच्यते । अधरीयोत्तरीय इत्यपि पाठे तदेवोक्तम् । कोशे- यस्य गुणाभावात्कार्पासस्य गुणराहित्यम् । लोभमूलत्वे च कुशवेष्टनपूर्वकत्वोर्ध्वदेशत्वनियमौ न स्यातामित्याह—प्राक्चेति । उदाहरणान्तरमपि दूषयति — किं चेति । अष्टाचत्वारिंशद्वर्षंब्रह्मचर्यंस्यचाष्टाचत्वारिंशद्वर्षं सर्वं वेदब्रह्मचर्यमित्यादि । अथ सर्वं वैदिकविहितत्वादनादाहरणता चकारसूचिता । पूर्वोक्त- बलाबलविशेषं निराकरोति—यदीति । किं तदर्थान्तरमित्यपेक्षायामाह—शान्तीति । न चास्यानारभ्याधीतन्यायेन दौर्बल्यम् । तस्य कल्प्यक्रतुसम्बन्धमनारभ्याधीतम्, कॢप्तं क्रतुसम्बन्धात्प्रकरणाधीताद् दुर्बलम्, क्रतुसम्बन्धविप्रकर्षादित्येवंरूपस्य क्रत्वङ्गविषयत्वादस्य च क्रत्वङ्गविषयत्वाभावादित्याह—न चेति । एतदेवोपपादयति—न हीति । विरोधपरि- हारस्तर्हि कथमित्यपेक्षयामाह—वाक्यान्तरैरिति । दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक्सञ्चयनादस्थ्नां त्र्यहमेकाहमेव च ॥ इत्याशौचच्छेदकालानां यथा व्यवस्थितो विकल्पः, तथेहापि भविष्यतीति व्यवस्थित- विकल्पसूचनाय दृष्टान्ताभिधानपरत्वादाशौचकालानाम् । 'एकाहाच्छुद्ध्यते विप्रो योऽग्निवेदसमन्वितः । त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः ॥' इति वचनान्तरेण ।