मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 387, कुल 804 में से
संदर्भ में पढ़ें४ ] प्रथमाध्याये तृतीयपादः ३३५ वाक्ययोरानर्थक्यमेवापद्येतेत्याह — श्लेषेति । उभयत्रापि समविकल्पासम्भवमुपसंहरति — तेनेति । वस्तुविरोधात्पक्षयोश्चासाम्याद्विषयान्यत्वमेव विरोधपरिहाराय वाच्यं न तु विकल्पो युक्त इत्यर्थः । स चान्यो विषयो दृष्टान्ते दर्शित इत्याह — स चेति । ननु यस्यापि धर्मपीडा नास्ति, तस्याप्याशौचाद्वृद्धेर्निषिद्धत्वान्नेयं विषयव्यवस्था युक्तेत्याशङ्क्य, निषेधोऽपि तद्विषय एवेत्याह — तत्र चेति । धर्मपीडाद्यपेक्षयेत्यादिशब्दसूचितमाशौचकालानां व्यवस्थान्तरमाह — दन्तेति । आहि- ताग्न्यादिपाठाज्जातशब्दस्य परनिपातः । मानवीयानुजातपदस्यानुपश्चाज्जातमपत्यं यस्मादिति व्याख्यानार्थोऽन्यशब्दप्रक्षेपः । चितिक्रियाशब्दश्चतुरहोपलक्षणार्थः । चितिक्रियात्र्यहैकाहा ये विहिताः ते दन्तजातादिविषया इत्यर्थः । पारिशेष्याद्दशाहं कृतचूड़े चेति चकारसूचितो- पनीतविषयो ज्ञायते । कथमेषा व्यवस्था प्रतीयत इत्यपेक्षायां — क्रमादित्युकम् । दन्तजाता- दिषु संस्थितेष्वशुद्धा बान्धवा इत्युक्ते कस्मिन्संस्थिते कियन्तं कालमशुद्धेत्यपेक्षायां दशाहादीनामुक्तत्वात्स्मृत्यन्तरपर्यालोचनया प्रातिलोम्यक्रमेणेयं व्यवस्था प्रतीयत इत्यर्थः । अस्मिंश्च पक्षे वृद्धिनिषेधोऽप्येकशास्त्रगतत्वादेतद्विषय एवेत्याह — तत्र चेति । नन्वस्तु प्रातिलोम्यक्रमेणैकाहादीनां दन्तजातादिविषयत्वम्, धर्मपीडाल्पत्वविषयत्वे तु किं कारणं दक्षवचनाच्चाग्निवेदसमन्वितादिमात्रविषयत्वं प्रतीयते, न चाग्निवेदसमन्वितत्वं धर्मभूयिष्ठत्वेन नियतम् । दाम्भिकादौ व्यभिचारदर्शनादित्याशङ्क्य दक्षवचनस्य धर्मपीडा- विषयत्वद्योतनार्थं गौतमवचनमुदाहरति — तथेति । कार्यशब्दस्य धर्मविषयत्वात् तत्साह- चर्य्येण च स्वाध्यायशब्दस्यापि स्वाध्यायसाध्यजपादिधर्मविषयत्वप्रतीतेः तद्विघातार्थं सद्यः शौचं विदधताऽल्पाशौचस्य धर्मपीडापरिहारार्थत्वद्योतनान्महत्यामापद्यग्निवेदसाध्यकर्मा- नुष्ठानं विना प्रतीकारासम्भवेऽनुष्ठान्तराभावे वा तत्प्रतीकारार्थकर्मानुष्ठानमात्रविषया- शौचाभावप्रतिपादनपरम् 'एकाहाच्छुद्धयते विप्र' इति दक्षवचनं व्याख्येयमिति भावः । यथा अस्माभिर्दक्षवचनस्य धर्मपीडापरिहारार्थत्वाङ्गीकरणेनाल्पाशौचकालानां — तद्विष- यत्वमुक्तम् । गौतमेनापि तथोक्तं द्योतितमित्यर्थः । नन्वेवं सति तत्कालमात्राशौचाभावप्रतिपादनपरत्वेनोत्तरकालानुवृत्तेरनुज्ञातत्वाज्जा- तदन्तादिविषयाणां चाशौचकालानां भिन्नविषयत्वेन वृद्धेरप्रसक्तत्वान्निषेधो न युक्त इत्याशङ्क्य विषयान्तरमाह — अथ वेति । अन्तर्दशाहात्स्यातां चेत्पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ इति पूर्वाशौचसमाप्तावाशौचान्तरनिमित्तसन्निपात्ते पूर्वाशौचकालशेषेण मनुना शुद्धिमुक्त्वा, निमित्तावृतौ नैमित्तिकाशौचानावृत्तिर्न्यायेत्याशङ्कानिराकरणार्थं पूर्वाशौच- परिच्छेदार्थंप्रवृत्तेन दशाहादिना प्रसङ्गेनान्तः पतितस्याशौचान्तरस्यापि परिच्छेतुं शक्य- त्वादाशौचानावृत्तेर्न्याय्यत्वं न वर्द्धयेदघाहा नीतिनेनोक्तमिति भावः ।