भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 399, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 399

५ ] प्रथमाध्याये तृतीयपादः ३४७ भा० वि०—विषयमाह—आचन्तेत्यादिना । यद्यप्यत्र कर्तव्यमात्रमनूद्या- चमनादिविधायकानामुदाहरणत्वं प्रतीयते, तथापि पुरुषार्थाचमनादिस्मृतीना- मप्यविरोधे, विरोधे च प्रमाणत्वाप्रमाणत्वयोर्निरूपितत्वात् क्रत्वर्थाचमनादि- विशेषविषयाणामेवोदाहरणत्वमिति मन्तव्यम् । तत्र श्रुत्यर्थाबाधकत्वबाधकत्वाभ्यां सन्देहमाह—किमेतानीति । इति विचार्यत इति शेषः, विरुद्धान्येताविरुद्धानीत्येवं सन्देहः, न कर्तव्यानि, कार्याणीति तु तत्फलनिर्देशः, अत्र विरोधाविरोधमात्रं विचार्यम्, अप्रामाण्यप्रमाणते तु पूर्वाधिकरणाभ्यामेव सिध्यत इति भावः । तदनेन यदि विरोधादप्रामाण्यम् तर्ह्याचमनादिस्मृतीनामपि क्रमादिश्रुतिविरोधाद- प्रामाण्यं स्यादित्याशङ्कयाविरोधप्रतिपादनात् अधिकरणसङ्गतिस्सूचिता । यद्वा क्रमकालादिश्रुतिविरोधमङ्गीकृत्य तद्विरुद्धान्याचमनादीनि न कर्तव्यानि उत धर्मविरोधेऽपि धर्मिभिः पदार्थैरविरुद्धानि कर्तव्यानीति विचार्यत इत्यर्थः । इह तूत्सृष्टस्य विरोधादप्रामाण्यस्य प्रमेयबलीयस्त्वेनापवादात् सङ्गतिः, विचार- फलं च आचमनादीनां क्रत्वङ्गत्वसिद्धिः, अत्राप्याचारपक्षे क्रत्वङ्गपदार्थविष- याणामाचाराणां क्रमाद्यविरोधं विरोधेऽपि वा प्रमेयबलीयस्त्वेनाप्रामाण्यापवादं वक्तुमारम्भः, सिद्धान्तनिरासेन पूर्वपक्षं दर्शयितुं तदनुवादपरं सूत्रं—तस्येति । चेदितिभागं व्याचष्टे—इति चेदिति । इति शब्दार्थं दर्शयन् अवशिष्टं व्याचष्टे— तैरिति । न विरुध्यते न बाध्यत इत्यर्थः । यथैव हि श्रुत्यादिभिः समाख्यापर्यन्तैः प्रापितान् पदार्थानादाय क्रमादीनां प्रवृत्तिः, तथा स्मृत्याचारप्राप्तानपीति, न स्मार्तैराचमनादिभिः अनुष्ठीयमानैर्वैदिकं किंचिदपि हीयत इति भावः । अबाध- फलमाह-तस्मादिति । क्रमादिभिरविरुद्धानि, विरोधेऽपि वा तैः पदार्थैरविरुद्धानि कर्तव्यानीति भावः ॥ ५ ॥ त० वा०—शिष्टाकोपे-एवं तावत्पुरुषार्थस्मृतीनामविरोधे विरोधे च प्रमाण- त्वाप्रमाणत्वे निरूपिते । संप्रति तु क्रत्वर्थानां यज्ञोपवीतोदकाचमनदक्षिणहस्ता- चरणस्मृतीनां बहुश्रुत्यर्थमध्यपातिनीनां विरोधाविरोधमात्रमेव विचार्यते । तन्निर्णये तु कृते, पूर्वाधिकरणाभ्यां प्रमाणत्वाप्रमाणत्वसिद्धिः । कथं पुनर्वरुद्धत्वं कथं वा न विरुद्धता । श्रुत्यर्थविगुणत्वेन तदभावेन चेष्यते ॥ २७८ यदि यज्ञोपवीतादीनि क्रतुमनुप्रवेश्यमानानि चोदकप्रयोगवचनाभ्यां न परि- गृह्यन्ते, निराक्रियन्ते वा, ततो विरोधः । यदि पुनरानुगुण्यात्प्रकरणादिपठित- वत्स्मृत्यनुमितवाक्यसंयोगेन क्रतुमनुप्रविशन्ति, न च पूर्वगृहीतं किंचिद्बाधन्ते, ततो न विरुद्धानीति ।