मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 401, कुल 804 में से
संदर्भ में पढ़ें५ ] प्रथमाध्यायस्य तृतीयपादः ३४९ विरोधत्वेन पर्यवसितं निरूपणम्। तथापि सम्प्रति क्रत्वर्थानां यज्ञोपवीतादिस्मृतीनां विरोधाविरोधमात्रमेव विचार्यंत इत्यर्थः । ननु क्रत्वर्थस्मार्त्तपदार्थानुष्ठानस्य श्रौतपदार्थपरिमाणविरोधाविरोधशङ्काऽस्तु नाम, न तु किंचिन्मात्राधिक्येन पूर्वाह्नादिकालविरोधशङ्का। न च सर्वादावनुष्ठीयमानस्य क्रमविरोधशङ्केत्याशङ्कय, बहुश्रुत्यर्थेत्युक्तम्। श्रौतपदार्थानां बहुत्वेन सकलपूर्वाह्नादि- व्यापित्वात्किंचिदाधिक्येऽपि कालातिक्रमापत्तिः। तन्मध्ये च स्मार्त्तपदार्थानुष्ठानक्रमबाधा- पत्तिरित्याशयः। ननु विरोधाविरोधमात्रस्य विचार्यत्वे कार्याकार्यशब्दावनर्थकौ स्याता- मित्याशङ्क्य, विचारप्रयोजनप्रतिपादनार्थत्वेन तयोः साफल्य माह—तन्निर्णये त्विति। नन्वाचमनादीनां निषेधाश्रवणे विरोधो नास्ति श्रवणे विरोध इति सन्देहानुपपत्ति- माशङ्कते—कथं पुनरिति। नात्र निषेधश्रवणाश्रवणाभ्यां सन्देहः, किन्तु स्मार्त्तपदार्थानुष्ठाने श्रुत्यर्थवैगुण्यापत्त्यनापत्तिसन्देहादिति परिहरति—श्रुत्यर्थेति। एतदेव विवृणोति— यदोति। प्रकृतिमनुप्रवेश्यमानानि प्रयोगवचनेन निराक्रियन्ते, तन्निराकृतानि च सामि- धेनी सादृश्यवद्विकृतिमनुप्रवेश्यमानानि प्राकृताङ्गनिरकाङ्क्षत्वाच्चोदकेन न परि- गृह्यन्त इत्यर्थः । यद्वा नात्र विरोधाविरोधमात्रं विचार्यते किं तु सत्यपि विरोधे किमाचमनादीनां धर्मित्वेन बलीयस्त्वाद्बाधः, प्रमाणदौर्बल्याद् बाध इति विरोधाधिकरणापवादार्थं विचार्यंत इति, अन्यथा सन्देहभाष्यं व्याख्यातुमाह — अन्ये त्विति। सन्देहः किं कर्त्तव्यान्युता- कार्याणीत्येवंरूप इति शेषः। अस्मिन्पक्षे सिद्धान्तवचनव्यक्तिप्रतिपादकमुताविरुद्धानि कार्याणीति भाष्यमविरुद्धानि, विरुद्धान्यपि वा धर्मितया बलीयस्त्वेनाबाधितत्वात्कार्याणीति द्विविधसिद्धान्तप्रतिपादकतया व्याख्येयम्। यद्वा श्रौतैः क्रम-काल-परिमाणविरोधेऽपि तदीयैः पदार्थैरविरुद्धत्वात्कार्याणीत्येक- रूपसिद्धान्तप्रतिपादकतयेति। यद्यपि शाखान्तराधिकरणसमाप्तावपि वा क्रमसंयोगाद्विधि- पृथक्त्वमेकस्यां व्यवतिष्ठेते (२-४-३२) इति सूत्रेण क्रम-काल-परिमाणविरोधाच्छाखान्तरीय- पदार्थानानुपसंहारमाशङ्क्य विरोधेनाथसंयोगादेकधर्म्ये तत्संयोगाद्विधीनां सर्वप्रत्यय (२-४-३३) इति सूत्रेण पदार्थानां क्रमादिबाधकत्वं वक्ष्यते तथापि स्मार्त्तानां पदार्थानां प्रमाणदौर्बल्याद् बाध्यत्वाशङ्का न विरुध्यते। तत्रत्यस्यैव प्रमेयबलाबलस्य प्रमाणबलाबल- बाधायाऽत्रोपन्यासात् तस्यापि नानेन पौनरुक्त्यं शङ्कनीयम्। यद्यपि च पिकनेमाधिकरणे स्वरूपबलाबलेन आश्रयबलाबलस्य बाध्यत्वं वक्ष्यते, तथाप्यनादित्वेन लब्धात्मकत्वात्समु- दायप्रसिद्धेराश्रयदौर्बल्येऽपि, क्लृप्तत्वेन स्वरूपबलीयस्त्वादलब्धात्मकवयवप्रसिद्धेर्बाध- कत्वेऽपि प्रमाणदौर्बल्ये प्रमेयस्यात्मलाभायोगादलुब्धात्मकस्मर्तृप्रमेयबाधकत्वं युक्तमित्या- शङ्काऽत्र न विरुध्यते। आश्रयदौर्बल्येन त्वात्मलाभायोगाशङ्का तत्र निराकरिष्यत इति विवेकः ।