भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 417, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 417

७ ] प्रथमाध्याये तृतीयपादः ३६५ प्रत्यक्षवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशा यत्परम्पराप्राप्तमन्यदपि धर्मबुद्ध्या कुर्वन्ति। तदपि स्वर्ग्यत्वाद्धर्मरूपमेव। तद्यथा शुश्रुवान्विद्वाननूचानश्च वैदिकः। पुनस्तल्लक्षितो वेदे तेनैवाध्ययनादिषु ॥ ३४० तेनाहोरात्रपौर्वापर्यवदनादित्वाद् वेदतदर्थानामितरेतराश्रयत्वाप्रसङ्गः। स्मृति- रप्याचारं वेदवचनं वोपलभ्याभ्यनुज्ञानायैव प्रवृत्तेत्यदोषः। यत्तु हेत्वन्तरं दृष्ट्वा वेदमूलनिवारणम्। प्रत्यक्षवेदमूलेऽपि तद् दृष्टैस्तदकारणम् ॥ ३४१ वेदेऽपि हि बहून्येव दृष्टार्थगन्धस्पृष्टानि विधीयन्त इति, न तावता वेदमू- लत्वाभावः। यानि तु म्लेच्छादिसमानानि नियतानियताक्रियान्तराण्यर्थसुखसाधनकृषि- सेवा-वाणिज्यादीनि मिष्टान्नपान-मृदुशयनासनरमणीयगृहोद्यानालेख्यगीतनृत्यगन्ध- पुष्पादिकर्माणि प्रसिद्धानि, तेषु नैव कस्यचिद्धर्मत्वाशङ्काऽस्तीति न तत्सा- मान्पतोदृष्टेनेतरनिराक्रियोपपत्तिः। केषांचिद्वा धर्मत्वाभ्युपगमान्न सर्वेषामेव तत्प्रसङ्गः। किं तु—देवब्राह्मणपूजादि यत्तेषामपि किंचन। तत्रेष्टमेव धर्मत्वं शिष्टाचारमतं हि तत् ॥ ३४२ लोके हि कश्चिदाचारः शिष्टत्वेन विशिष्यते। कश्चित्तु प्राणिसामान्यप्राप्तस्तैरपि संगतः ॥ ३४३ तत्र यः कार्यरूपेण शिष्टानेवानुवर्तते। स एव केवलो धर्मो नेतरः प्राणिमात्रगः ॥ ३४४ आत्मतुष्टेर्धर्मे प्रामाण्यसाधनम् एतेन वैदिकानन्तधर्मधीसंस्कृतात्मनाम्। आत्मतुष्टेः प्रमाणत्वं प्रसिद्धं धर्मशुद्धये ॥ ३४५ तथैव बहुकालाभ्यस्तवेदतदर्थज्ञानाहितसंस्काराणां वेदनियतमार्गानुसारि- प्रतिभानां नोन्मार्गेण प्रतिभातं संभवतीत्याश्रित्योच्यते—“यदेव किंचनानूचा- नोऽभ्यूहत्यार्षं तद्भवतीति”। वैदिकवासनाजनितत्वाद् वेद एव स भवति। आत्मतुष्टेः प्रामाण्योपसंहारः तथा हि-यथा रुमायां लवणाकरेषु मेरौ यथा वोज्ज्वलरुक्मभूमौ। यज्जायते तन्मयमेव तत्स्यात्तथा भवेद्वेदविदात्मतुष्टिः ॥ ३४६