मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 432, कुल 804 में से
संदर्भ में पढ़ें३८० मीमांसादर्शनम् [ सू० ननु कल्पान्तरे मनूनामभावात्तद्वाक्यप्रामाण्यपरत्वे वेदस्यानित्यत्वं स्यादित्या- शङ्क्याह—स्थिताश्चेति । दृष्टान्तं विवृणोति—प्रतिद्युशमिति । मन्वादेः प्रवाहनित्यता कथमवगम्यत इत्यपेक्षिते मनुवचनमुदाहरति—उक्तं चेति । दृष्टान्तान्तरमाह—इतिहासेति । उपसंहरति—तेनेति । कथं पुनर्वेदातिरिक्तानामपि तन्मूलानां ग्रन्थानां धर्मप्रमाङ्गत्वमतन्मूलानां च तत्सं- वादिनामप्यनङ्गत्वमित्यवगम्यत इत्यपेक्षायामुभयद्योतकं लिङ्गं दर्शयति—तथा चेति । वेदमूलानां धर्मप्रमाङ्गत्वद्योतकत्वमस्योपपादयति—अन्यथा हीति । बाह्यानां धर्मप्रमाङ्ग- त्वद्योतकमपपादति—यदि चेति । वेदमूलग्रन्थनिबन्धनानां धर्मप्रामाण्यम्, न बाह्यानामिति यदि नाश्रीयेते तथा सति बाह्यानां विज्ञातप्रत्यक्षातिमूलत्वान्नवाविज्ञातमूलं किंचिदित्यर्थः । अतः साक्षात्परम्परया वा वेदादवगम्यानुष्ठितोऽर्थः श्रेयःसाधनमिति शास्त्रार्थविवारणाद्भे- दार्थस्यापि बाह्यस्मृत्यवगतस्य श्रेयःसाधनत्वं नास्तीत्यप्रामाण्याभिधानाभिप्रायं प्रकटयति— तस्मादिति । एतदेव दृष्टान्तद्वारेण विवृणोति — यथैवेति । अतिक्रान्तं वेदोक्तं तथा मर्यादया तया व्यवहारिणामिति विग्रहः धर्मविप्लावकत्वाच्च शाक्यादीनामश्रद्धेयवचनत्वमित्याह— स्मर्यन्ते चेति । ननु विसंवादिशाक्यादिवाक्यानामग्राह्यत्वेऽपि संवादिनामहिंसादिवाक्यानां ग्राह्यत्वं भविष्यतीत्याशङ्कयाह—यथेति । परपीडात्मकात्कर्मणस्तदनुरूपमात्मनः पीडात्मकं फलम्भवतीति कर्मानुरूप्योपमानं वैदिक्यपि हिंसा लौकिकीवदधर्म इति सामान्यतो दृष्टदुःखोपभोगस्य पापफलत्वाज्ञानादुःखोपभोगात्पापक्षयो भवतीत्यर्थापत्तिः तद्बलाच्छा- क्याद्यभिप्राय कल्पितानां धर्माभासानां मध्ये पतितमित्यर्थः । संवादोत्तरकाले तर्हि ग्रहीष्यत इत्याशङ्कयाह—यदेति । सिद्धान्तमुपसंहरति—तस्मादिति । तृतीयं सूत्रं स्मृत्याधिकरणो- क्ताचारप्रामाण्याक्षेपपरिहारे योजयितुमुपक्रमते — यत्त्वेतदिति । धर्मजिज्ञासाधिकारेऽप्यर्थ- कामाचाराणामपि दृष्टप्रमाणमूलत्वेन प्रसङ्गात्प्रामाण्यसिद्धिमभिप्रेत्य, त्रिवर्गग्रहणम् । स्मृति- न्यायसिद्धस्याचारप्रामाण्यस्याक्षेपानुपपत्तिमाशङ्क्य तत्समर्थनार्थं सन्देहहेतुप्रदर्शनपूर्वकं पूर्वपक्षमाह—तद्विपरीतेति । त्रिवर्गविपरीतैरधर्मानर्थदुःखासाधनैरात्महननादिभिराचारैः सङ्कीर्णो व्यवहारो येषामिति विग्रहः वैद्यश्चासावातुरश्चेति कर्मधारयं कृत्वा पूर्वपदेन कर्मधारयः कार्यः । अत्यन्तविलक्षणानन्ताचारमूलभूतैकश्रुतियोगात्प्रत्याचारं च मूलकल्पने- ऽनन्तश्रुतिकल्पनापत्तेर्नाचारमूलश्रुतिकल्पनं सम्भवतीति वक्ष्यमाणप्रकारेणाचाराणां श्रुति- कल्पकत्वासम्भवमभिप्रेत्याशब्दत्वोक्तिः । विरोधं दर्शयति—सदाचारेषु हीति । लोभाद्य- भिभवात्सन्निहितानर्थदर्शनेनाधर्माचरणं धर्मव्यतिक्रमः । दृष्टस्याप्यनर्थस्य बलदर्पेणानादरा दधर्माचरणं साहसं वहता । प्रायो धर्मव्यतिक्रमवर्णनम् व्यतिक्रमं साहसं च यथासम्भवं दर्शयति—प्रजापतेस्तावदिति । इन्द्रस्यापि गौतम- भार्यागमनेनागम्यागमनरूपादधर्माचरणाद्धर्मव्यतिक्रम इत्यनुषङ्गेण योज्यम् । इन्द्रे ब्रह्म-