मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 437, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३८५ यत्वात्मतुष्टेरपि प्रामाण्यात्तेनं स्मृतेराचारप्रामाण्यप्रतिपादनपरतेत्युक्तं तत् आत्मतुष्टेरपि प्रामाण्योपपादनेन दूषयति—एतेनेति । वेदविहितकार्याचारस्य वेदमूलत्वं विनानुपपत्तेर्वेद्- मूलतयाऽऽचारप्रामाण्यप्रतिपादनेन वेदजन्यानन्तधर्मंधीसंस्कृतान्तःकरणानामात्मतुष्टेरपि वेद- मूलत्वं विनानुपपत्तेः सन्दिग्धधर्मंनिर्णयार्थत्वेन प्रामामाण्यं वेद एव प्रसिद्धमित्यर्थः । शुद्धिशब्देन निर्णयोऽभिहितः । श्लोकं विवृणोति—तथैवेति । वेदतदर्थज्ञानस्याव्यवस्थि- तत्वनिराकरणार्थं तथैवेत्युक्तम् । प्रसिद्धिं दर्शयितुमित्याश्रित्योच्यत इति । वेदवाक्यगतार्षशब्दव्याख्यानार्थं वेद एव सम्भवतीत्युक्तम् । एतदेव दृष्टान्तेनोपपाद- यति—तथा हीति । सन्दिग्धार्थनिर्णायकत्वमात्मतुष्टेर्द्रढयितुमभियुक्तसम्मतिमाह—एवं चेति । प्रसिद्धथुपपादनाय—विद्वद्वचनादित्युक्तम् । निरूपणं दर्शयितुं कालिदासवाक्य- मुदाहरति—सतां हीति । दुष्यन्तेन शकुन्तलेयं मम परिणेतुमुचिता न वेति सन्दिह्य "असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मन" इत्यात्मतुष्ट्यौचित्यं निश्चित्य कथमात्मतुष्टि- मात्रेण निश्चय इत्याशङ्क्य—सतां हीत्युक्तम् । अस्यैव वाक्यस्याभिप्रायमाह — बहुदिनेति । एवं तावच्छिष्टात्मतुष्टेर्वेद नियतमार्गानुसारित्वात्स्मृत्याचारवद्धर्मंप्रतिज्ञापकहेतुत्वमुक्तमिदानी- मात्मतुष्ट्या स्वविषयस्य कस्यचिच्छू त्याद्यविरुद्धस्य कर्मणः श्रेयःसाधनशक्तिरूपं धर्मत्व- मुत्पाद्यत इति कारकहेतुत्वमाह—यद्धेति । वचनादेवेत्यात्मनस्तुष्टिरिवेत्यत्रानुषज्यमानस्य धर्मंमूलपदस्य धर्मोत्पादकत्ववाचित्वमभिप्रेत्योक्तम्—धर्मंतेति । अथ चोपरिष्टात्तथाचारातमतुष्ट्यादिधर्ममिति तस्मै हितमित्युपकारार्थं यत्प्रत्ययदशंना- द्धर्मोपकारिता धर्महेतुतेत्यर्थः । स्वभावभिन्नानामप्येकोषधियोगादेकशक्त्याविर्भावः सम्भव- तीति दृष्टान्तेनोपपादितं यथा भिन्नानामपि देवदत्तादीनामेकपुण्यक्रियायोगाद् ध्यायमानानां श्रेयःसाधनत्वम्, तथा भिन्नानामपि कर्मणामेकशिष्टात्मतुष्टियोगात् श्रेयःसाधनत्वमित्यर्थः । तस्माच्छब्देन पुण्यकृद्ध्यानस्य श्रेयःसाधनत्वे प्रमाणं पापं ध्यात्वा पुण्यकृतोऽध्यापयेति वचनं परामृष्टम् । आचारेऽपीमं परिहारमतिदिशति—आचारेष्वपीति । आचारश्चैव साधूनामित्येनेनापि श्रुतिस्मृत्यर्थाविरुद्धं यत्किंचिच्छिष्टैः क्रियते, तत् श्रेयःसाधनमित्युच्यत इत्यर्थः । अत्रैव दृष्टान्तान्तराण्याह—यथा चेति । भिन्नानामपि मन्त्राणामुच्चारयितृयोगादोष- धीनां नकुलदंष्ट्रायोगाद्गुवां पुण्यकृद्योगाद्येकशक्त्याविर्भावो यथेत्यर्थः । दाष्ट्रान्तिके योज- यन्नुपसंहरति—तथेति । धर्मंव्यतिक्रममनुभाष्य परिहरति—यत्त्विति । प्रजापतौ तावच्छ्रहतिसामान्यं विवृणोति— प्रजापतिस्तावदिति । इन्द्रे विवृणोति — एवमिति । नहुषे श्रुतिसामान्यमात्राद्वेति वाशब्द- सूचितं सदाचारत्वाभावं विवृणोति—नहुषेण पुनरिति । सदाचारस्य प्रमाणत्वेनाभ्युप- गतस्य व्यभिचारः परिहर्त्तव्यः । नहुषाचारस्य त्वनन्तरमेवाजगरत्वप्राप्त्या सदाचारत्वा- भावनिश्चयाद्यद्यतिक्रमेऽपि धर्मबुद्ध्या क्रियमाणस्याचारस्य व्यतिक्रमाभावान्न दोष इत्या- २५