मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 443, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३९१ मुपन्यस्यति—अन्ये त्विति । आपस्तम्बवचनं प्रपञ्चयति—येषामिति । (एतदेव परिहारं मनुवचनेन द्रढयन्नाह—तथेति ।) एतमपि परिहारं देशाचारकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणमिति गौतमवचनबलेन—निराकरोति । ननु चेति एतत् परिहारवादी स्वाभिप्रायमाशङ्कते—आहेति । निराकरोति—न त्विति । प्रयोगं दर्शयति—स्मार्त्तैति । एतदेव व्याचष्टे—ग्रन्थेति । मन्वादयो ये ग्रन्थ- काराः तद्गतायाः स्मृतेर्मूलाद्यो मन्वादिकृतो ग्रन्थ आम्नायशब्दवाच्यः, स स्मृतिग्रन्था- ध्यायिनां तस्या एव मन्वादिगताया एव स्मृतेः ग्रन्थमूलत्वेनानुमेयाया धारणार्थत्वेनोक्त इत्यर्थः । अनेन च य आम्नायः, स स्मृतिधारक इति शङ्खलिखितवाक्यस्य वचनव्यक्ति- र्दर्शिता । ततश्चार्थायः स्मृतिधारको ग्रन्थः, स आम्नाय इत्युक्तं भवति । यद्वा यः स्मृतिधारकः, स आम्नाय इति वचनव्यक्त्या स्मृतिधारणार्थत्वेन य आम्नाय स किं गतायाः स्मृतेः; किं रूपः; केषां चेत्यपेक्षिते—ग्रन्थकारेत्याद्युक्तम् । अविभक्तिकाम्नायशब्दपाठे त्वाम्नायेन स्मृतिधारको ग्रन्थ इत्युक्ते किं गतायाः स्मृतेः; को ग्रन्थः; केषां चेत्याकाङ्क्षानिवृत्त्यर्थत्वेनैतद्व्याख्येयं स्मार्त्तधर्माधिकारादल्पाच्तरत्वेन घ्यन्तत्वेन च स्मृतिशब्दस्य पूर्वनिपातोपपत्तेर्न द्वन्द्वसमासाशङ्का । स्वमतमुपसंहरति—ततश्चेति । नन्वापस्तम्बवचनस्य तर्हि का गतिरित्याशङ्कयाह— आपस्तम्बेति । पञ्चधा विप्रतिपत्तिर्दक्षिणतोऽनुप्रतीतेन मार्यया च सैह भोजनम्, पर्युषित- भोजनमुच्छिष्टभोजनम्, पितृष्वस्तृमातुलदुहितृपरिणयनमिति । तथोत्तरतः पञ्चधा-ऊर्णा- विक्रयः, सीधुपानमुभयतो दद्भिर्व्यवहार, आयुधीयकम्, समुद्रयानमितीति बौधायनेन स्मृतिविरुद्धदृष्टाचारोदाहरणानि दत्वेतर इतरस्मिन्कुर्वन्दूष्यति नेतरस्मिन्देशप्रामाण्य- व्यवस्थया प्रामाण्यमापस्तम्बेनोपन्यस्यति—मिथ्यैतदिति । गौतम उभयन्त्वेतन्नाद्रियते शिष्टस्मृतिविरोधादिति निराकृतत्वादापस्तम्बस्यापि मन्वादिवद्धर्मशास्त्रप्रवक्तृतया याज्ञ- वल्क्येन स्मरणात्तद्वचनस्य मिथ्यात्वायोगाेऽपि गर्हानिराकरणमात्रपरतया तद्व्याख्येयमित्या- शयः । मनुवचनं तु तेन यायात्सतां मार्गमिति विशेषणादविरुद्धकुलधर्मविषयत्वेना- विरुद्धम्, ननु विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वं विना कथं प्रवृत्तिरित्या- शङ्कयाह—दृष्टेति । पुंस्त्वस्य विवक्षिताशंकासमाधाने ननूपादेयगतत्वेन सुरापाननिषेधे पुंस्त्वस्य विवक्षितत्वान्न ब्राह्मणानां निषिद्धमित्या- शङ्कते—आहेति । अनुवादगतत्वेनाविवक्षामभिप्रेत्य परिहरति—उच्यत इति । आशङ्कित- स्वाभिप्रायमाह—नन्विति । पाश्र्वंस्थो हननप्रतिषेधेऽपि भूतभाव्युपयोगित्वाभावेना- संस्कार्यत्वाद् ब्राह्मणस्यानुपादेयपञ्चकव्यतिरिक्तत्वेनानुद्देश्यत्वमभिप्रेत्यातिप्रसङ्गद्वयमापा- दयति—उच्यत इति । एकत्वविवक्षाप्रसङ्गे को दोष इत्यपेक्षायामाह—अहत्वेति । पूर्वं- वच्छब्देन निषेधानतिक्रमलक्षणकृतार्थतोक्ता । आशङ्किता द्वितीयातिप्रसङ्गतं दोषं