मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 448, कुल 804 में से
संदर्भ में पढ़ें३९६ मीमांसादर्शनम् [ सू० समासिकलक्षणस्यापि वाक्यभेदस्याभावात्किमिति विशेषणाविवक्षेत्याशङ्क्याह-अनूद्यमान इति । न केवलं प्राधान्येनानूद्यमानस्य प्राप्यपेक्षत्वम्, किन्त्वनुवाद्यविशेषणत्वेनाप्यनूद्य- मानस्येति सर्वशब्देन सूचितम् । तत्रानुवादस्य प्राप्यपेक्षत्वे सत्यनूदितस्य सुरापानस्य स्त्रीपुंसकत्तृकत्वेन प्रागेव प्रतीतेर्लिङ्गविशेषणस्यानाकाङ्क्षितत्वाद्विधेयेऽप्येककर्त्तृकपानाप्रस- क्तेरनुवाद्यपानविशेषणत्वेनाज्ञातज्ञाप्येभ्यो ब्राह्मणादिभ्योऽन्यल्लिङ्गं न विधीयते । नानुवाद्य- विशेषणत्वेनाज्ञातं ज्ञाप्यत इत्यर्थः । नन्वप्राप्तनिषेधायोगान्निषेध्यप्राप्त्यर्थं 'ब्राह्मणः सुरां पिवेदित्यवान्तरवाक्यार्थपर्यवसान- वेलायां विधेयविशेषणत्वेन लिङ्गादिविवक्षा प्रसक्ता पश्चान्निषेधान्वयेऽपि न केनचिद् बाध्यत इत्याशङ्कते तावत्-यदि हीति । तत्र किमप्राप्तस्य पानस्य निषेधायोगादन्यतश्चा- प्राप्तैरर्थाद्विधेयत्वं कल्प्यते 'किं वा वाक्यस्वरसादेव विधिपरत्वं प्रतीयते इति विकल्प्य आद्यं तावत्पक्षं दूषयति-यत्तस्त्विति । द्वितीयं दूषयति-प्रतिषेधेति । यदा च पानं न विधीयते, तदा तत्र ब्राह्मणादेः सत्यपि गुणवादेऽनुवाद्यत्वात्प्रतिषेधे चाक्रियात्मनि गुणत्वायोगात् प्रत्युत प्रत्यवायव्यावृत्त्यानुग्राह्यत्वेन प्राधान्याद्विधानं न सम्भवतीत्याह- तेनेति । भेदवादिमते नाद्यवचनव्यक्तौ पानस्य कर्त्तव्यत्वेनानूदितस्य प्रतिषेधः । विध्येकत्व- वादिमतेन द्वितीयवचनव्यक्तौ पानं स्वरूपेणानूद्य प्रतिषेधेन विधीयमानेनेति कर्मव्युत्पन्नस्य विधिशब्दस्य प्रतिषेधशब्देन सह कर्मधारयः । द्वितीयव्याख्याने प्रतिषेधस्याभावस्य विधिनेत्यर्थः । एवं सत्यपि यदि स्त्रीकर्तृकं पानं लोके न प्राप्नुयात् ततस्तन्न निषेध्येत, न त्वेतदस्तीत्याह-लोके चेति । एवमनूद्यमानः सर्वो हीति पूर्वार्द्धोक्तमर्थं प्रकृते योजयित्वा, तत्रानाकाङ्क्षितमित्युत्तरार्द्धं योजयति-न चेति । नन्वेवं तर्हि यो ब्राह्मणः पिवेत्स पुमानिति ब्राह्मपदोपात्तनिषेधपरित्यागेनानुवादपदान्तर्गतसन्निकृष्टब्राह्मणपदोपात्तलिङ्ग- सम्बन्ध एव केवलो विधीयतामत आह-न चास्येति । निषिद्धश्रुतिवैय्यर्थ्यापत्तेरिति भावः । उपसंहरति-ततश्चेति । प्रासङ्गिकाशङ्काशेषनिराकरणावताराय-उभयत्रापीत्युक्तम् । ननु वधनिषेधे लिङ्गाविवक्षायां ब्राह्मणवधेऽपि ब्रह्महत्यापत्तेर्महापातकनिमित्तकर्म- हान्यादिप्रसङ्गः स्यादित्याशङ्काक्षेपमाह-नन्विति । अत्र कुशावस्था अस्तीत्यात्रेयी गर्भिणी । अभ्युपगमेनैव परिहरति-ब्राह्मणेति । न च महापातकत्वे प्रायश्चित्ताल्पत्वं विरुद्धयते, पुंब्राह्मणवधेऽपि रहस्ये प्रायश्चित्ताल्पत्वदर्शनादित्याह-न चेति । उपसंहरति- तस्मादिति । सुरापानस्य तु स्त्रीकर्त्तृकस्यापि प्रायश्चित्तान्तरानाम्नानान्निःसन्दिग्धं महापात- कमित्यहिच्छत्रब्राह्मणीसुरापानस्य स्मृतिविरोधो दुःपरिहर इत्याह-सुरापाने पुनरिति । नन्वापस्तम्बेन देशव्यवस्थया विरुद्धाचारप्रामाण्याभिधानाद्देशान्तरनिवासिब्राह्मणी- विषया सुरापाननिषेधस्मृतिः कल्पयिष्यत इत्याशङ्क्याह-यापि चेति । स्मृतिविरोधेऽदृ- तनाचाराप्रामाण्यं विस्तरेणोपपाद्योपसंहरति-इतीति । एवमुत्सूत्रं पूर्वपक्षं कृत्वा सदाचारप्रामाण्यप्रतिपादनपरतयाऽपि वेति सूत्रं व्याख्याय, इदानीं सूत्रारूढं पूर्वपक्षं कर्तुं न शास्त्रपरिमाणत्वादिति पूर्वाधिकरणसिद्धान्तसूत्रमाचारा-