मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 466, कुल 804 में से
संदर्भ में पढ़ें४१२ मीमांसादर्शनम् [ सू० विक्रमेण स्त्रीधर्मत्वावधारणमाचारपरम्परास्मृत्या विना न शक्यमित्याशयः । अतो नानाप्रकरणस्थत्वेन पुरुषधर्मविधिपरत्वकल्पनविक्षेपलक्षणाद्विप्रकीर्णत्वाच्छिष्टाचारपारम्पर्यं- स्मृत्या विनैकार्थे तात्पर्योपसंहारो न सम्भवतीत्युपसंहरति — एवं चेति । ततश्चाचार- प्रामाण्यस्य सिद्धान्तस्मृत्यन्तरितत्वमित्याह—तेनेति । सिद्धान्तमुपसंहरति त्रिवृदादिशब्दानां वाक्यशेषवशेनार्थनिर्णयः — तस्मादिति । लोकवेदगतयोर्वाशब्दार्थप्रसिद्धयोर्विरोधे साम्यवैषम्यविचारार्थं तेष्वदर्शनादित्यादिसूत्र- द्वयमिति वर्णकान्तरमाह—त्रिवृदिति । एकस्यापि वाच्यत्वे सादृश्येनेतरत्र प्रतीतेः प्रयोगो- पपत्तिशङ्कानिराकरणार्थम् — विलक्षण इत्युक्तम् । एकेति । लौकिक्येव वैदिक्येव वेति पक्षद्वयमुक्तम् । त्रिवृच्छब्दे विप्रतिपत्तिं दर्शयति — लोके तावदिति । स्तोत्रीयागतनवको विवक्षितः । कथं वेदे स्तोत्रीयानवकार्थत्वप्रसिद्धिरित्यपेक्षायामाह — त्रिवृदिति । ‘उपास्मै गायता नरो दिवि द्युतत्याः रुचा, पवमानस्य ते के च सा० सं० उ० १-१-२ इति तृचत्रयानु- क्रमणन्नवभिः स्तुवन्तीति स्तुत्यन्तरदर्शनात्स्तोत्रियां नवकविषयत्वं त्रिवृच्छब्दस्यावसीयतइ- त्यर्थः । चरुशब्दे विप्रतिपत्तिं दर्शयति—तथेति । याज्ञिकप्रसिद्धिं दर्शयति—अनवम्ला- वेतेति । मक्तव्यावृत्त्यर्थमनवम्लावितविशेषणम् । वैशद्यानपेक्षपाकमात्रनिमित्तत्वदर्शनाधर्मन्त- रूष्मपक्वग्रहणं वेदे प्रसिद्धिं दर्शयति—तथेति । आदित्यं चरुं विधायज्येस्त्यैनं चरुमभिपूर्य चतुराज्यभागान्यजति, पथ्यां स्वस्तिमिट्टाऽग्नीषोमौ यजति, अग्निषोमाविष्ठा सवितारं यजत्यदितिमोदनेनेति क्रमपरे वाक्ये सिद्धवदनुवादादोदनवाचिता चरुशब्दस्य ज्ञायते । आश्वलावशब्दे विप्रतिपत्तिं दर्शयति—एवमिति । वेदप्रसिद्धिं दर्शयति—एवं हीति । ऐक्षवीशब्देऽप्यादिशब्दोपात्तां विप्रतिपत्तिं दर्शयति—ऐक्षव्याविति । विषयं दर्शयित्वा साम्यपक्षे तावत्सूत्रं योजयति—एवमादिष्विति । आदिशब्दः स्तोमशब्दाभिप्रायः । भाष्यकृद्व्याख्याने कः पुनरत्र निश्चय इति सिद्धान्तवेलायां प्रश्नदर्श- नाद्विप्रतिपत्तिशब्दस्य सन्देहार्थत्वप्रतीतेस्तद्व्यावृत्त्यर्थं विपर्ययार्थत्वे विप्रतिपत्तिशब्दं व्याख्यातुम्—प्रतिपत्तिविपर्ययइत्युक्तम् । हिशब्दः पादपूरणार्थः । तेष्विति सूत्रावयव- व्याख्यातुमाशङ्कते—ननु चेति । सूत्रावयवेनाशङ्कां निराकरोति—नैतदिति । अनेन च तेषु पदार्थेषु वाक्यार्थवदतीन्द्रियत्वाभावेन लोकविषयत्वविरोधस्यादर्शनादिति सूत्रावयवो व्याख्यातः । साम्यपक्षमुपसंहरति—तस्मादिति । लौकिकप्रसिद्धिबलीयस्त्वपूर्वपक्षमध्येनेनैव सूत्रेणाह—यदि चेति । लौकिकप्रसिद्धि- बलीयस्त्वहेतुतया (तेष्विति) सूत्रावयवेनोक्तमनुपसञ्जातविरोधित्वं साधयितुम्—पूर्व- भावित्वादित्युक्तम् । पूर्वभावित्वमुपपादयति—वेदेति । नन्वेवं सति वेदस्य पदार्थविधा- रणोपायत्वाभावेन क्वचिदपि वैदिकप्रसिद्धयभावाद्ध्विचार एवायं नोपपद्येतेत्याशङ्क्याह— तत्रेति । अत्रैव सूत्रं योजयति—तेष्विति । तेष्वदर्शनाद्विरोधस्येति सूत्रावयवस्य तेष्वेवादर्श- नाद्विरोधस्येत्यभिप्राय इत्यन्वयः । उभयत्राविरोधसाम्यापत्तिशङ्कानिवृत्त्यर्थमवधारणम् ।