मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 513, कुल 804 में से
संदर्भ में पढ़ें११ ] प्रथमाध्याये तृतीयपादः ४५९ वदन्ति धर्ममेतानि चोदना गमयन्ति च । अशक्यमीदृशं वक्तुं यावदुक्तप्रमाणकैः ॥ ५५५ उक्तमर्थं परित्यज्य यदनुक्तं प्रतीयते । अनुक्तेन च सोऽप्यर्थ इति किं नोपपद्यते ॥ ५५६ तस्माद्धर्मप्रयोगस्य साक्षादुक्तस्य तत्स्वयम् । प्रमाणं धर्मशास्त्रं स्यान्न वेदव्यवधानवत् १ ॥ ५५७ शाक्यादिनिर्मिते धर्मशास्त्राभासे निराकृते । शाक्यग्रन्थानां वेदवत्स्वातन्त्र्येण प्रमाण्यमितिपक्षः धर्मप्रयोगशास्त्रत्वं तस्य वेदमिहोच्यते ॥ ५५९ येनैवाकृतकत्वं हि वेदस्य प्रतिपाद्यते । न्यायेन तेन शाक्यादिग्रन्थस्यापि भविष्यति ॥ ५५९ बोधकत्वात्प्रमाणत्वं स्वतस्तस्यापि लभ्यते । न च संदिह्यते बुद्धिर्न विपर्य्यते क्वचित् ॥ ५६० अकर्तृकतया नापि कर्तृदोषेण दुष्यति । वेदवद् बुद्धवाक्यादिकर्तृस्मरणवर्जनात् ॥ ५६१ बुद्धवाक्यसमाख्याऽपि प्रवक्तृत्वनिबन्धना । तद्द्रष्टृत्वनिमित्ता वा काठकाङ्गिरसादिवत् ॥ ५६२ यावदेवोदितं किंचिद्वेदप्रामाण्यसिद्धये । तत्सर्वं बुद्धवाक्यानामतिदेशेन गम्यते ॥ ५६३ तेन प्रयोगशास्त्रत्वं यथा वेदस्य संमतम् । तथैव बुद्धशस्त्रादेर्वक्तुं मीमांसकोऽर्हति ॥ इति ॥ ११ ॥ ५६४ न्या० सु०—अनुमानादित्यादिभाष्यात्स्मृत्याचाराणां किं व्यवस्थया प्रामाण्यम- व्यवस्थाया वेति चिन्ता प्रतिभाति । तत्र प्रमाणस्य तावदालोकवत्सर्वपुरुषसाधारण्यान्न व्यवस्थाशङ्कोपपत्तिमती । अथ स्मृत्याचारमूलभूता श्रुतिः किं व्यवस्थितविषया सर्वविषया वेत्यभिप्रायः । तथाऽप्यष्टकादिस्मृतीनां प्रदीपाद्याचाराणां च व्यवस्थितविषयमूलाथशङ्का निर्बीजैव मूलविशेषविषयचिन्तात्वाच्च स्मृत्यधिकरणानन्तरं सङ्गच्छेत । तस्माद्द्होलाका- दयः प्राच्यैरेवेत्यादिभाष्यात्त्वधिकारिव्यवस्था सदसद्भावाचिन्ता । सा च प्रमाणेन लक्षणे- न सङ्गतेत्याशङ्कयाह—देशधर्मानिति । १. व्यवधानतः पु० पाठः ।