भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 55, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 55

मीमांसादर्शनम् प्रथमाध्याये द्वितीयः पादः आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्माद- नित्यमुच्यते ॥ १.२.१ ॥ [पू०] शाबरभाष्यम् 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' १। प्रजापतिरात्मनो वपामुदक्खिदत् २। देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्' ३ इत्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि । तानि किं कञ्चिद्धर्मं प्रमिमते, उत नेति भवति विचा- रणा । तदभिधीयते । क्रिया कथमनुष्ठीयेतेति हि तां ४वेदितुं समाम्नातारो वाक्यानि समामनन्ति । तद्यानि वाक्यानि क्रियां नावगमयन्ति, क्रियासम्बद्धं वा किञ्चित्, एवमेव भूतमर्थमन्वाचक्षते रुदितवान्‌रुद्रो, वपामुच्चिखेद प्रजापतिः, देवा वै दिशो न प्रजज्ञिर इत्येवं जातीयकानि, तानि कं धर्मं प्रमिमीरन् ? अथोच्येत—अध्याहारेण वा विपरिणामेन वा, व्यवहितकल्पनया वा, व्यव- धारणकल्पनया वा, गुणकल्पनया वा कश्चिदर्थः कल्पयिष्यत इति, स कल्प्य- मानः कः कल्प्येत ? रुद्रः किल रुरोद अतोऽन्येनापि रोदितव्यम् । उच्चि- खेदात्मनो वपां प्रजापतिरतोऽन्योऽप्युत्खिदेदात्मनो वपाम् । देवा वै देवयजन- काले दिशो न प्रज्ञातवन्तः, अतोऽन्योऽपि दिशो न प्रजानीयादिति । तच्चाशक्यम् । इष्टवियोगेन५, अभिघातेन वा यद् बाष्पनिर्मोचनम्, तद्रोदन- मित्यच्यते । न च तदिच्छातो भवति । न च कश्चिदात्मनो वपामुत्खिद्य, तामग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुना यष्टुं शक्नुयात् । न च देव- यजनाध्यवसानकाले केचिद् दिशो मुह्येयुः । अत एषामानर्थक्यम् । तस्मादेवं जातीयकानि वाक्यान्यनित्यानीत्युच्यन्ते । यद्यपि च नित्यानि, तथाऽपि न नित्यमर्थं कुर्वन्तीति । स एष वाक्यैकदेशस्याऽऽक्षेपो न कृत्स्नस्य वाक्यस्य । नन्वेकदेशाद्विना साकाङ्क्षः पदसमूहो न पर्याप्तः स्वस्मै प्रयोजनाय । अत आक्षिप्त एवेति । नैवम् । भवति हि कश्चित्पदसमूहो योऽर्थवादेभ्यो विनाऽपि विदधाति किञ्चिदर्थम् । यानि पुनस्तैः सह संयुज्यार्थान्तरे वर्तन्ते, तान्येक- देशाक्षेपेणाऽऽक्षिप्यन्ते ॥ १ ॥ १. तै० सं० १-५-१ । २. तै० सं० २-१-१ । ३. तै० सं० ६-१-५ । ४. अनुष्ठेयेति॰वदि॰ पु० । ५. अ इष्टवियोगादिना ।