भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 572, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 572

५१८ मीमांसादर्शनम् [ सू० न तु वेदाध्यायिनां कदाचिदप्यभियुक्ततरसहाध्यायिव्यतिरेकेण वेदवर्णपद- वाक्याज्ञानसन्देहविपर्ययव्यावृत्तौ व्याकरणम्, वैयाकरणा वोपयुज्यन्ते । सहाध्यायिभिरेवातो वेदः कात्स्न्येन रक्ष्यते । स्वराक्षरविनष्टोऽपि द्वेषादन्यैर्न मृष्यते ॥ ७३५ तस्मात्प्रीतैरुपायैर्द्विष्टैः कारुणिकादिभिः । न विनाशयितुं वेदो लभ्यते तेन रक्ष्यते ॥ ७३६ तस्माद्वेदरक्षार्थं तावन्नाध्येयं व्याकरणम् । काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाच्च व्याकरणस्य वैयर्थ्यम् लोके तु सर्वभाषाभिरर्था व्याकरणादृते । सिध्यन्ति व्यवहारेण काव्यादिष्वप्यसंशयम् ॥ ७३७ यदि तु संव्यवहारवाक्येष्वनुपयुज्यमानमपि काव्यनाटकलक्षणप्राकृतव्याकरण- द्विपदी-रासकादिलक्षणन्यायेन संस्कृतकाव्योपयोगार्थं व्याकरणमाश्रीयेत १ तथाऽपि काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाद्यथेष्टभाषाभिः प्रबन्धकरणसम्भवाच्छब्देषु न व्यवस्था स्यादित्युरुच्यते । काव्यशोभास्वपि त्वेतन्नैवातीवोपयुज्यते । वैयाकरणदोषाद्धि कष्टाञ्शब्दान्प्रयुञ्जते ॥ ७३८ न च लक्षणमस्तीति प्रयोक्तव्यमलौकिकम् । लोकसिद्धप्रयोगे तु लक्षणं स्यादनर्थकम् ॥ ७३९ तेन लोकेऽपि न कदाचिद् व्याकरणेन शब्दरक्षा । ऊहस्याप्यन्यतस्सिद्धत्वाद् व्याकरणस्यानुपयोगः ऊहार्थमपि शब्दानां न व्याकरणमर्थवत् । ऊहस्याप्यन्यतः सिद्धेरूह्यानूह्यविभागवत् ॥ ७४० तथा च—मुख्यदृष्टार्थतास्वार्थसमवेतार्थतादिभिः । प्रयुक्ताः प्रकृतौ मन्त्रा गताः कार्यातिदेशतः ॥ ७४१ विकारेऽथ निषिद्धोहाः कार्यापिन्नेषु पञ्चधा । अर्थान्तरेष्वपूर्वार्थद्वारेणोहं व्रजन्ति नः ॥ ७४२ एतावत्यन्यतो यस्य विना व्याकरणान्मतिः । जायेत स कथं तत्र पदं योग्यं न लप्स्यते ॥ ७४३ १ क. माश्रियेत ।

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 572, कुल 804 में से · BharatKosha