मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 575, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः '२१ 'तद्दध्नो दधित्त्वम्' इत्येवमादीनि हि वैदिकार्थवादान्तर्गतान्येव हि निरुक्त- व्याकरणादीनि । तैः सह विधायको वेदोऽध्येतव्य इति स्मृत्यर्थो भवेत् । प्रातिशाख्यपरत्वेन तृतीयं व्याख्यानम् प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते । गृह्यमाणतदर्थत्वादङ्गत्त्वं तेषु वा स्थितम् ॥ ७५९ व्याकरणस्य प्रयोगशास्त्रत्वमाशंकानिरासौ यानि हि वेदव्यापारपराण्येव, तेषु लिङ्गेन शक्यमङ्गत्त्वमध्यवसातुम् । नतु कतिपयस्पृष्टवेदवाक्योदाहरणच्छद्ममात्रेषु पाणिनिप्रभृतिप्रणीतेषु प्रातिशाख्यानीव प्रयोगशास्त्राणीति चेत् । ने । तेषां पदस्वरूपेष्वेव व्यापारात् । पाणिनीयादिषु हि वेदस्वरूपवर्जितानि पदान्येव संस्कृत्य संस्कृत्योत्सृज्यन्ते । प्रातिशाख्यैः पुनर्वेदसंहिताध्ययनानुगतस्वरसन्धिप्रयत्नविवृतिपूर्वाङ्गपराङ्गाद्यनुसरणाद्भेदाङ्गत्व- माविष्कृतम् । पूर्वोक्तेनानुसंधानमागमस्य च नास्ति ते । आगमोऽध्ययनप्रायः प्राक्च शब्दानुशासनम् ॥ ७६० ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय' इति विहिते ज्ञाने धर्मः, शास्त्रपूर्वप्रयोगेऽभ्युदय इति च व्याहताभिधानम् । व्याकरणस्य शब्दापशब्दज्ञानं प्रयोजनमित्यस्य निरासः यदपि च शब्दापशब्दज्ञानलाघवं प्रयोजनत्वेनोपदिष्टम्, तत् निराकृतप्रयोज- नान्तरस्य लाघवमात्रमेवावशिष्यते - इति सत्यमेवोक्तम् । गौरवस्यैवोपचारेण लाघवकथनमिति उपहासकथनम् यदि वा गौरवस्यैव लघुत्वमुपचर्यते । विपर्ययापदेशेन शूर कातरशब्दवत् ॥ ७६१ लोकप्रसिद्धानामेव शब्दानामत्यन्तविषमधातुग्गणोणादिसूत्रादिभिरलौकिक- संज्ञा-परिभाषानिबद्धप्रक्रियैरनवस्थितस्थापनाक्षेपसिद्धान्तविचारैः क्लेशेनान्तं गत्वा यथावस्थितानुवादमात्रमेव क्रियते । तत्रापि चोदाहरणव्यतिरिक्तेषु कस्य- चिदेव लक्षणयोजनसामर्थ्यं दृश्यते । तेनात्यन्तगुरुः सन्नयमुपायस्तुत्यर्थमेव लघु- रित्युपचरितः । भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्य निरासः यदपि केनचिदुक्तम्- तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ इति । ७६२ तद्रूपरसगन्धस्पर्शेष्वपि वक्तव्यमासीत् । १ म. भा. पस्पशाह्निके ।