मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 58, कुल 804 में से
संदर्भ में पढ़ें६ . मीमांसादर्शनम् [ सू० त्वादामरक्षणकर्त्तव्यताप्रतिपादकशास्त्रविरोधाच्च न विधानमित्याह—न होति—दिङ्मोहस्य चापुन्तन्त्रत्वेन दृष्टविरुद्धत्वात् 'प्राङ्मुखोऽन्नानि भुञ्जीत' इत्यादिशास्त्रविरोधाच्च न कर्तव्यमित्याह—न चेति । ननु माभूद्विधिकल्पना स्वार्थपर्यवसानमेवैषामस्तु, अथ वा किं विधिकल्पनया प्रामाण्याभ्युपगमेन प्राशस्त्यादिलक्षणाद्वारेण स्वसन्निहितविध्येकवाक्यतया धर्मप्रामाण्योपपत्तेरिति शङ्कां परिहरन्नुपसंहरति—अत इति । अतः क्रिया- बोधनद्वारेण धर्माधर्मप्रमापकत्वाभावादेषामर्थवादानामानर्थक्यं निष्प्रयोजनत्व- मेव युक्तमित्यर्थः । अयं भावः प्रयोजनवदर्थपर्यवसायित्वमध्ययनविधिपर्यालोचनया वेदमात्रस्य भवताभ्युपगतमेव । न चार्थवादानां स्वार्थपर्यवसायिनां तद्युज्यते, तत्प्रतीत्या प्रयोजनादर्शनात् । अतः प्राशस्त्यादिद्वारा विध्येकवाक्यत्वमेवैषां प्रामाण्य- प्रयोजकमाश्रयितव्यम् न च तत्र प्रमाणमस्ति, न च प्राशस्त्यादिणक्षणणैवेक- वाक्यत्वे प्रमाणम् सर्वत्रैकवाक्यताधीनत्वाल्लक्षणायाः तस्या अपि तदधीनत्वे परस्पराश्रयदोषप्रसङ्गात् । न च प्रयोजनवदर्थविवोधपरत्वं वेदस्य प्रतिपाद- यन्नध्ययनविधिरेवैकवाक्यत्वे प्रमाणमिति वाच्यम् । अध्ययनविधेरर्थवादशक्त्य- नुसारित्वेन तदवगमितस्यैव विशिष्टस्यार्थस्योपेक्षादिफलवत्त्वकल्पनायामेव तस्य सामर्थ्यादिति आनर्थक्यप्रतिपादनफलतया सूत्रशेषं व्याचष्टे—तस्मादिति । नन्वर्थवादेष्वप्यपौरुषेयत्वादिनित्यत्व हेतुसाम्यात् कथम नित्यत्वव्यपदेशः तत्राह—यद्यपीति । तथापि नित्यानां चोदनानां यत्कार्यं धर्माधर्मप्रमितिलक्षणम्, तन्न कुर्वन्तीति कृत्वा नित्या नित्यविलक्षणानि¹ अप्रमाणानीत्युच्येरन्नित्यर्थः । अन्यैर्वृत्तिकारैरिदं सूत्रं सर्ववेदप्रामाण्याक्षेपार्थं व्याख्यातम् । अर्थवादाप्रामाण्ये हि स्तुतिनिन्दादिलक्षणेतिकर्तव्यतांशाभावेन शब्दभावना- संभवात् चोदनाप्रामाण्यस्याक्षिप्तत्वं स्यादिति तां निराकरोति—स एष इति । वाक्यस्यैकदेशो वाक्यैकदेशः, विध्युद्देशातिरिक्तस्य वेदभागस्येति यावत् । अर्थवादादीनामविशेषेण धर्मं प्रत्यनुपयोगस्यापि पूर्वपक्षिणोऽभिमतत्वम् । न चेह वाक्यभेदमङ्गीकृत्य पूर्वपक्षप्रतिपादनात् एकवाक्यत्वासंभवेन वाक्यैकदेशत्वासंभवः, सिद्धान्त्यभिमतैकवाक्यत्वमाश्रित्यैकदेशत्वोक्त्यविरोधात् । यद्वा क्रय्योः, गौरियं हि सम्पन्नबहुक्षीरेत्यादौ कारकपदानाभिव स्तावक- पदानामप्येकवाक्यत्वदर्शनात्, वेदेऽप्येकवाक्यत्वसंभवमाश्रित्य तस्य वेदे द्वारा- भावेन निर्वाह मपश्यतः प्रत्यवस्थानात् पूर्वपक्षेप्येकवाक्यत्वमाश्रितमेवेति न विरोधः । १. नित्यानित्यविलक्षणानीति मातृकायां पाठः ।