मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 585, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५३१ साधुभिर्भाषिमाणानां नादृष्टफलसम्भवः । दृष्टार्थत्वाद्यथा धूमादग्निं देशेऽवगच्छताम् ॥ ८२७ अशास्त्रविहितत्वाच्च बुद्धशब्दाभिधानवत् । शास्त्रं नावेदरूपत्वात्प्राकृतव्याक्रियादिवत् ॥ ८२८ वेदमूलतयाऽप्यस्य प्रमाणत्वं न कल्पते । अवेदविषयार्थत्वान्नाटकादिनिबन्धनवत् ॥ ८२९ शास्त्राङ्गमपि नैवैतदातदर्थ्यात्कथादिवत् । अतादर्थ्यं विनाऽप्यस्माद्भेदेनार्थावबोधनात् ॥ ८३० न च शब्दप्रयोगाङ्गं सिद्धे तस्मिन्प्रवर्तनात् । यदीदृशमनङ्गं तद् दृष्टं नेत्रानुमानवत् ॥ ८३१ यथा हि चक्षुरादिग्रहणानपेक्षरूपादिविज्ञानसिद्धौ तज्जनितार्थापत्तिप्रभवं चक्षुराद्यनुमानमुपजातमपि न पूर्वज्ञानस्याङ्गम, एवं लोकवेदसिद्धशब्दप्रयोगोत्तर- कालप्रणीततया व्याकरणमप्यनङ्गम् । तस्मात्पर्यायशब्दत्वाद् गाव्यादेस्तरुवृक्षवत् । आचारेण प्रयोज्यत्वं न शास्त्रस्थैर्निवारितम् ॥ ७३२ ॥ २४ ॥ अथाष्टमव्याकरणाधिकरणम् ॥८॥ न्या० सु०—अत्र भाष्यकृता गोगाव्यादिशब्दानुदाहृत्य किमेते सर्वं एव सास्नादिमतोऽ- र्थस्य वाचकाः सन्तो वाक्यार्थे प्रमाणम्, उत एक एवेति । सास्नादिमतो वा पदार्थस्य कार्यायां वाक्यार्थप्रमायां कारणं किमेते सर्वं एव, उत एक एवेति सन्देहमुपन्यस्य प्रयोग- भेदेनाविरोधात्सर्वेषां व्रीहियवादिवद्विकल्पेन प्रामाण्योपपत्तेः, सिद्धान्ताभावेन सन्देहानुप- पत्तिमाशङ्क्य किमत्रैति भाष्येण शक्त्या विना शब्दस्यार्थप्रत्यायकत्वं सम्भवति, उत नेति सन्देहकारणमुक्त्वा सर्वं इत्यादिना भाष्येण पूर्वपक्षः कृतः । यववराहाधिकरणन्यायवर्णनम् तत्र यववराहाधिकरणे शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधस्योक्तत्वात् पूर्वपक्षानुप- पत्तिमाशङ्कयाह— एकस्मादिति । व्यवस्थितशास्त्रस्थप्रयोगबलेनाव्यवस्थितलौकिकप्रयोग- बाधमङ्गीकृत्य यवादिशब्दानां दीर्घशूकाद्यर्थनिर्धारणं यत्प्रतिपादितम्, तत् विकल्पदोष- भयादनेकादृष्टशक्तिकल्पनाप्रसङ्गाद् गौणमुख्यविभागाश्रयणाच्चेति योज्यम् । एतत्कारणत्रयो- पपादनायैकस्मादित्युक्तम् । यवैर्यजेतेत्येकस्माद्यवपदाद्दीर्घशूकैर्वा यष्टव्यम्, प्रियङ्गुभिर्वेत्य- नेकार्थप्रतीतेर्विकल्पोऽनेकक्तिकल्पना ह्येकस्य शब्दस्यापद्येत, एकस्मिंश्चार्थे शब्दस्य शक्तौ कॢप्तायां गौणत्वेनेतरत्र प्रयोगोपपत्तेननिकक्तिकल्पनं युक्तम् । इह तु गोशब्दश्रवणात्ततोऽ-