मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 614, कुल 804 में से
संदर्भ में पढ़ें५६० मीमांसादर्शनम् [ सू० शब्दः । उदाहरणपर्यालोचनयापि मन्त्रविनाशविषयतैवास्य श्लोकस्यावसीयत इत्याह— तथा चेति । स यज्ञवशसं कृत्वा प्रासहामसोममपिबत् तस्य यदीयशिष्यत तत्त्वष्टाऽऽहवनीय- मुपप्रावात्तंयत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति यदवर्तंयत्तद् वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति तस्मादस्येन्द्रःशत्रुरभवदि (तै. सं २.२.२१)त्या याद्युदात्तेन्द्रशत्रुपदप्रयोगेणेन्द्रो यस्य शत्रुरिति बहुव्रीह्यर्थसम्पत्तेस्त्वष्टुः पुत्रस्य वृत्रस्येन्द्रः शातयिता हिंसितो जात इत्याद्युदात्तत्वलक्षण- स्वरदोषेण वृत्रशत्रोरिन्द्रस्योत्पत्तिवादिन्द्रवधसमर्थपुत्रोत्पादनार्थं यागं कुर्वाणस्य त्वष्टुर्यजमा- नस्याभिप्रेतार्थासिद्धिलक्षणा हिंसा जातेति स्वरापराधलक्षणमन्त्रविनाशनिमित्तयजमानगा- मिदोषोदाहरणं कृतमित्यर्थः । इन्द्रशत्रुरिति मन्त्रपदं स्वरापराधात् यथा यजमानं हिनस्तीत्युदाहरणार्थः । तस्मादिन्द्रस्य शत्रुर्भुत्वा वर्द्धस्वेति तत्पुरुषार्थविवक्षायां मन्त्रोदा- हृतमिदं प्रयोक्तव्यमित्याशयः । यच्च नाम भाष्यकृता— 'यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥' इति श्लोकमुपन्यस्य, तस्मादविज्ञातमनर्थकमधिगीष्महीत्यध्येयं व्याकरणमिति वेदाध्ययनसाध्यं वेदार्थज्ञानं व्याकरणप्रयोजनत्वेनोक्तम् । तद्व्याकरणप्रयोजनत्वेनाभास- मानमप्यन्यतः सिद्धेनं व्याकरणप्रयोजनमित्याह—यस्त्विति । अध्ययनविधेर्दृष्टार्थत्वाभि- धानान्मीमांसाप्रयोजनत्वेनैतद्युक्तं भवतीत्याशयः । ननु मीमांसावद्व्याकरणमपि वेदार्थ- ज्ञानसाधनं भविष्यतीत्याशङ्क्याह—तन्विति । शब्दानुशासनार्थत्वेनार्थपरत्वाभावः सूत्रावयवयोजनया सूचितः । नन्वर्थविशेषविषय शब्दानुशासनानन्तरीयकत्वेनार्थानु- शासनमपि सेत्स्यतीति, स्वयमेवाशङ्क्योत्तरं सूत्रावयवं परिहारे योजयति—शब्देति । नन्वर्थगतसन्देहविपर्ययनिरासमात्रस्य मीमांसासाध्यत्वाद्भेदात्स्वरूपज्ञानं व्याकरणाद्भूविष्य- तीत्याशङ्कां निरस्यन्नुपसंहरति तस्मादिति । यच्च— 'यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥' इति श्लोकेन शब्दव्यवहारकालेऽर्थविशेषे सम्यक्शब्दप्रयोगस्य पारलौकिकफलप्राप्ति- हेतुत्वाभिधानात्तत्सिद्धिर्व्याकरणस्य प्रयोजनमिति भाष्यकृतोक्तम् । तदप्यन्यथा व्याख्यातुं शक्यत्वात्प्रयोजनाभासमित्याह—यस्त्विति । गुरुसम्प्रदायागते स्वरादिविशेषे कुशलः सन्वेदाध्ययनादिव्यवहारकाले वैदिकांश्शब्दान्प्रयुङ्क्त इति व्याख्येयमित्याशयः । ननु मन्त्रब्राह्मणेष्वपशब्दाभावात्तद्विषयत्वे दुष्यति चापशब्दैरित्ययुक्तं स्यादित्याशङ्क्याह— यथेति । कथं वैदिकशब्दविनाशविषयताऽस्याऽवसीयत इत्यपेक्षायामाह—स्वाध्यायेति ।