मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 62, कुल 804 में से
संदर्भ में पढ़ें१० मीमांसादर्शनम् [ सू० पपत्तेरुपदेशो हि भवतीति चोदनाख्योपदेशत्वस्य हेतुत्वेन भाष्यकृता व्याख्यातत्वाद्देद- वाकयानि धर्मे प्रमाणं चोदनात्वादिति प्रतिज्ञासूत्रार्थविधारणादर्थवादादिप्रामाण्यविचारस्य प्रतिज्ञासङ्गतिनिरूपणार्थं वेदग्रहणम्, सिद्धेऽपि सामान्यतो वेदप्रामाण्ये तद्विशेषस्यार्थ- वादादेस्तदसंभवाशङ्कानिरासार्थत्वेनास्य विचारस्यापौनरुक्त्यनिरूपणार्थं विवेककीर्त्तनम् । सिद्धग्रहणेन चैतद्दर्शयति । प्रमाकरणत्वं प्रमाणत्वम् । न च प्रथमे पादे धर्मप्रमोत्पत्तिसिद्धयङ्गीकारेण तत्र वेदस्य करणत्वमुच्यते । प्रत्यक्षादेस्तत्करणत्वनिषेधाच्छब्दस्य च प्रमाणान्तरादृष्टेऽर्थे कारणत्वासिद्धेः तस्मात्का- रणाभावेन धर्मप्रमानुत्पत्तिमाशङ्कय कारणान्तराभावेऽप्याकाङ्क्षासन्निधियोग्यता- सध्रीचीनपदार्थप्रतिपादनद्वारेणापौरुषेयत्वात्प्रमाणान्तरानपेक्षः स्यात् एव निरस्तदोषा- शङ्कस्य वेदस्य कारणत्वोपपत्तेर्धर्मप्रमारब्धकार्यसद्भावस्तत्र प्रतिपादितः, इह त्वर्थ- वादादिरूपस्य वेदभागस्य तत्राकरणत्वमाशङ्कय करणत्वं प्रतिपाद्यत इति स्पष्टमेवापौन- रुक्त्यं करणनिरूपणार्थे तु प्रथमपादे सत्युक्तप्रमाणभावस्येत्यवक्ष्यत् । धर्मप्रमाया वेद- कार्यत्वप्रतिपादनेन त्वर्थात्सिद्धयदपि वेदस्य करणत्वं संमुग्धरूपेणैव सिद्ध्येन्नार्थवादादि- विशेषरूपेनेति प्रतिपादयितुं सर्वश इत्युक्तम् । अर्थवादादिप्रामाण्यासद्धौ सर्वात्मकवेदप्रामाण्यासद्धेः संमुग्धाभिप्रायः सर्वशब्दो व्याख्येयः । परतः प्रामाण्यादिद्वारा अप्रामाण्ये सकलस्य वेदस्य निरस्तेऽप्यर्थवादादीनाम- बोधकत्वेनाप्रामाण्यमाशङ्कय धर्मबोधोपयोगित्वमिह प्रतिपाद्यमित्युपयोगशब्देनोक्तम् । अर्थवादोदाहरणं त्वानर्थक्यमतदर्थानामित्यविशेषश्रवणात् प्रदर्शनार्थम्, द्वारप्रविशेषप्रति- पादने चार्थवादमात्रस्य द्वारविशेषोऽत्राधिकरणे प्रतिपाद्यत इति दर्शयितुम् । सामान्य- तः स्तुत्युपयोगित्वासिद्धौ लाक्षणिकस्तुत्यादिद्वारविशेषस्याशक्यकल्पनत्वात्पूर्वं सामान्यो- पयोगे विचार्यें । सर्वेषामेवोदाहरणत्वमिति विध्यर्थवादमन्त्राणामित्यनेनोक्तम् । सिद्धे च धर्मप्रमाख्ये कार्ये कियतो वेदभागस्य तत्र कारणनेति विचारावसरो भवतीत्यधुनेत्यनेनोक्तम् । तस्मात्सर्वमदुष्टम् । श्लोकं व्याचष्टे—सामान्यत इति । यद्वा प्रतिपादितमपि सकलवेदप्रामाण्यमर्थवादादिष्वसम्भवादाक्षिप्येह समाधीयते इति । अन्यथा श्लोकं व्याचष्टे—अवधृतप्रामाण्यस्येति । अस्मिन्व्याख्याने सामस्त्यं सर्व- शब्दार्थः । विध्यर्थवादमन्त्राणामिति तस्यैव विवरणम् । विध्यादिग्रहणस्योपलक्षणत्वा- द्व्याख्याने नामधेयग्रहणम् । इह हि द्विपर्वाविचारः । पूर्वं तावदेषामक्रियार्थत्वेनानुपयोगमाशङ्कयाध्ययनविधि- बलाद्विधिना त्वेकवाक्यत्वादिति सूत्रावयवेन, तत्तुल्यं च साम्प्रदायिकमित्यनेन च सूत्रेण निराकृतं द्वारासंभवात् पुनरुज्जीव्यार्थवादानां तावत् द्वारविशेषोऽस्मिन्नधिकरणे चिन्त्यते । तस्मादनेन सूत्रेण सामान्यविशेषरूपेण पूर्वपक्षद्वयं तन्त्रेणोच्यते । आम्नायस्य