मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 723, कुल 804 में से
संदर्भ में पढ़ें३३ ] प्रथमाध्याये तृतीयपादः ६६९ तर्ह्युच्यत इत्यपेक्षायामाह—योऽर्थ इति । सामान्यविशेषाश्रय शब्देन सामान्य- विशेषव्यतिरिक्तं लक्ष्यते, तेन सामान्यविशेषव्यतिरिक्तत्वेनोपलक्षणेनोपलक्षितो योऽर्थः, तस्माद् व्यक्तिः, सैव चाभिधेयेति मयोच्यत इत्यर्थः । ननु व्यक्तेः सामान्यविशेषाश्रयत्वे तयोस्तदन्तर्गतत्वात् कथं सेवाभिधेयेति, तत्राह—व्यक्तिविषयश्चेति । सत्यप्याश्रयाश्रयिभावे निष्कृष्याश्रयमेवाभिवद- तीत्याह—तेषान्विति । शङ्कामुपसंहरति—तेनेति । सामान्यशब्दो विशेषस्या- प्युपलक्षणार्थः । सामान्यविशेषव्यतिरिक्तत्वाद् व्यक्त्यन्तरस्यापीत्यर्थः । परिहरति- यदीत्यादिना । सामान्यविशेषव्यतिरिक्तस्योपलक्षणस्य गोव्यक्त्यन्तरवदश्वव्यक्ता- वपि भावात्तत्रापि वर्त्तेतैवेत्यर्थः अतिप्रसङ्गं परिहरन्नाशङ्कते—आहेति । केवल- स्योपलक्षणस्याश्वा दिव्यक्तावभावान्नातिप्रसक्तिरित्यर्थः । तर्हि यत्र प्रयोगो न दृष्टः, तस्यां गोव्यक्तौ न वर्त्तेत । इतरथाश्वव्यक्तावपि वर्त्तेतेति दूषयति—यदीत्यादिना । किंचानुगतैकनिमित्ताभावे गौर्न पदा ऽस्प्रष्टव्या इत्यादिप्रयोगमात्रेण गोव्यक्तिष्वनु- गतैकाकारप्रत्ययो न स्यात् । अक्षशब्दप्रयोगमात्रेण विदेवनादिष्वदर्शनात् । किंतु अनियतैकव्यक्तिविषयत्वात् सन्देह एव स्यादिति, अत्राह—सामान्यप्रत्यय- श्चेति । अपूर्वगोदर्शनेऽपि नेयं पदा स्प्रष्टव्येति प्रत्ययदर्शनान्नेदमिष्टापादक- मित्याह—अवांत त्विति । प्रयोगस्यानियामकत्वे फलितमाह—तस्मादिति । अस्तु तर्हि शक्तेः नियामकत्वमिति चोदयति—एवं तर्हीति । यस्यां व्यक्तौ शब्दस्य शक्तिः तत्र वर्तते, नेतरत्रेति तस्य स्वभाव इत्यर्थः । शक्तेर्वा कथं प्रतिनियमः इत्याशङ्कायां औष्ठ्यादिवत्तदनुभवादित्याह—यथेति । नैवमपि प्रयोगप्रवृत्ति- व्यवस्था सिद्ध्यतीति परिहरति—नैवमिति । कुत इत्याशङ्क्यौष्ठ्यादिप्रति- नियमवत् शक्तिप्रतिनियमस्याप्रत्यक्षतया प्रयोगप्रवृत्त्यनुमेयत्वेन प्राक् प्रयोगादे- रविज्ञेयस्य प्रयोगव्यवस्थापकत्वानुपपत्तेरित्याह—न ह्येतदिति । अस्तु तर्हि जातिनिबन्धना प्रयोगव्यवस्थेति चोदयति-सांख्यमेतदिति१। अवगन्तुमिति विपरिगतस्यानुषङ्गः । कथमित्याह—गोत्वमिति । यंत्र गोत्वमुपलक्षणम्, तत्र गोशब्दो वर्तिष्यते, यत्र तन्नास्ति । न तत्राश्वादिव्यक्ताविति शक्यमवगन्तु- मित्यर्थः । अपसिद्धान्तापत्त्या दूषयति—एवं तर्हीति । व्यक्तिमात्रप्रतीतौ गोत्वो- पलक्षितत्वाप्रतीतेरिति भावः । ततः किमत आह—यदि चेति । कुत इत्यत आह—नहीति । ततश्च पूर्वतरमवगताया आकृतेरेव शब्दार्थत्वापात इति भावः । एवं केवलव्यक्त्यभिधानपक्षे निरस्ते पूर्ववादी द्वितीयं प्रकृतिविशिष्टव्यक्त्य- भिधानपक्षमुपन्यस्यति—अस्त्विति । आकृत्यभिधानमात्रमङ्गीकरोति कथमुभया- १. सत्यमेतदिति मु. भा. यु. पा. ।