मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 742, कुल 804 में से
संदर्भ में पढ़ें६८८ मीमांसादर्शनम् [ सू० इति ? कथं चोपलक्षणत्वेनाऽऽकृतावुपन्यस्तायां विशिष्टः प्रत्याय्यत इति विशेषणं दृष्टान्ततयोपन्यस्तमिति ? नायं दोषः । विशेष्याभिधायकप्रत्ययाभिप्रायत्वा- द्दण्डानभिधानस्य, यथा प्रत्ययेन, न च तावद् दण्डोऽभिधीयते । अथ च तद्विशिष्टः पुरुषः प्रत्याय्यत, तथेहापि भविष्यतीत्यभिप्रायः । यत्तूपलक्षणोपन्यासे विशेषणस्य दृष्टान्तता न युक्तेति । तदुपलक्षणस्यापि विशेषकत्वान्न चोद्यम् । यद्वा केनचित्सा- मान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेषकत्वेन चेत्यदुष्टम्, ततश्च सम्यग- भिहितं यथा दण्डिशब्दे, तद्वदत्रापि भविष्यतीति । एवं चाप्रसङ्गातिप्रसङ्गौ न भविष्यत इति । तदेतन्न युज्यते । युक्तं देवदत्तगृहस्य, पुरुषस्य च केवलस्याभिधानम्, विशिष्ट- प्रतीतावपि काकनिलयन-दण्डयोः प्रत्यक्षदण्डशब्दावगतयोर्विशेषणत्वोपपत्तेः । न तु गोत्वस्यासंनिहितस्येहोपलक्षणत्वं युज्यते । अप्रतीतविशेषणं विशेष्याप्रतीतेनं च दण्डिशब्दवत्तदवयवेन गोत्वाभिधानं प्रतीमः, येन द्वितीयावयवेन व्यक्तेरेवा- भिधानं स्यात् । अतश्च यदि तावद्गोत्वमभिधीयते, ततस्तदेवोक्तेन न्यायेन वाच्यं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात् । उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य प्राप्नोति । न च यथा दण्डिशब्दः केवले दण्डे न प्रयुज्यत इति विशिष्टवचनोऽव- धायंते, तद्वदाकृतौ प्रयोगाभावाद्विशिष्टवचनोऽवधारयितुं शक्यते । श्येनचित्यादा- वाकृतौ प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां च जातिरेव वाच्येत्यवधार्यते । श्येन- चिद्वाक्ये केवलायामाकृतौ प्रयुक्तत्वात् । क्वचिदपि चाऽऽकृत्या विना व्यक्तिमात्रे प्रयोगादर्शनात् । एवं येऽपि सम्बन्धसमुदायादयः पूर्वपक्षाः । तेऽप्युक्तेन न्यायेन निराकृताः । तेनाऽऽकृतिरेव शब्दार्थ इति ॥ ३३ ॥ न्या० सु०—अन्यदर्शनाच्चेति पूर्वपक्षसूत्रान्तर्गतभाष्यं स्पष्टत्वादुपेक्ष्य, आकृतिस्तु क्रियार्थत्वादिति सिद्धान्तसूत्रव्याख्यानार्थं वचनमाकृतौ सम्भवतोति भाष्यं दुष्टत्वसामान्येन बुद्धिस्थमपठित्वैव दूषयति—किं चेति । न केवलमेतदेव भाष्यमुपेक्षितव्यं किं त्वन्यदपीति किं च शब्दार्थः यद्वा कस्मै देवाय हविषा विधेमेत्येकशब्दार्थे किमो व्याख्यानात्, एक- शब्दस्य चापो भूयिष्ठा इत्येको अन्नवोदित्यन्यार्थदर्शनादन्यच्च भाष्यमुपेक्षितव्यमित्यर्थं- लाभः । किमित्युपेक्षितव्यमित्यपेक्षायाम् नैवेत्युक्तम् । नैवाकृतिस्तु क्रियार्थत्वादिति वदता सूत्रकृतेष्टकामिश्राकृतिसम्पादनमभ्युपगतम्, येन च यत्र साऽऽकृतौ सम्भवतीत्येवं सूत्रव्याख्या युज्येतेत्यर्थः । किमिति नाभ्युपगतमित्याशङ्कयाह—यत इति । स्वरूपेण जाते- र्नित्यत्वात्स्वव्यक्तिभूतद्रव्यसमवायित्वेन सम्पादनं वाच्यम् । तदपि नित्येष्वात्मादिषु नित्य- सिद्धत्वान्न सम्पादनमपेक्षते । कृतकेष्वप्यारम्भकहेतुस्वभावादेव यदारब्धे द्रव्ये जातिसम-