मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 744, कुल 804 में से
संदर्भ में पढ़ें६९० मीमांसादर्शनम् [ सू० श्येनव्यक्तिमात्रस्याभावाच्छ्येनत्वाकृतिसादृश्यमेवोत्पद्यते इति भावः । द्वितीयपक्षे तु यद्व्यक्तिसादृश्यं विहितम्, तद्धि शिष्टैस्तत्साहश्यस्याशक्यसम्पाद्यत्वाद्व्यक्त्यन्तरसादृश्यस्य चाविहितत्वात्सर्वपुरुषविषयत्वं शास्त्रस्य व्याहन्येतेत्याह — एकेति । सूत्रार्थमुपसंहरति — तस्मादिति । ननु चेति भाष्येण श्येनव्यक्तेश्चयनोत्पाद्यत्वायोगेऽपि चयनोत्पादकत्वेन विधिः सम्भ- वति, एकव्यक्त्यनुत्पाद्यत्वेऽपि चयनस्य बह्वीभिरुत्पादयितुं शक्यत्वादित्याशङ्क्य न साध- कतम इत्यनेन श्येनशब्दार्थस्येप्सिततत्वावगतेः साधनत्वेन विधानं सम्भवतीत्युक्तम् । तदुपपादयति — न हीति । यद्यप्ययं कर्मशब्दः क्तिन्प्रत्ययवाच्यविशेषणत्वान्नौपपदविशे- षणम्, तथापि कर्मणि हन इत्यतः सूत्रादनुवर्त्तमानस्य कर्मशब्दस्योपपदविशेषणत्वान्न शब्दार्थस्य कर्मतावसीयत इत्याशयः । अतश्चयनेनेति विध्यर्थप्रतिपादकं भाष्यं व्याचष्टे — श्येनेमिति । ननु श्येनाकृतिव्यक्त्योश्चयनेनोत्पादयितुमशक्यत्वात्कथमेष विध्यर्थः स्यादित्या- शङ्क्योक्तमेव सादृश्यलक्षणार्थत्वं भाष्यकाराभिप्रेतत्वप्रदर्शनार्थं पुनराह — तत्रापीति । श्येनसदृशं चीयमानमिष्टकासमूहं चयनेन भावयेदिति विध्यर्थोऽनेन दर्शितः । चयनमाकृतौ सम्भवतीत्याद्यस्यापि भाष्यस्य सादृश्यविषयत्वेन समर्थनोरपत्तेर्यथाश्रुतस्यैव पूर्वोक्तं दूषणं दर्शितम् । उभयत्रेत्यादिना क्रियार्थत्वस्योभयत्र साम्येनानिश्चायकत्वमाशङ्क्य, किं पुनरत्रेत्यनेन पूर्वपक्षहेतोरनिश्चायकत्वापादनायैवाकृतेः क्रियार्थत्वमुक्तम्, नाकृतिवाच्यत्व- निश्चयायेति सूचितम् । तत्स्पष्टत्वादव्याख्याय कथं तह्यीकृतिवाच्यत्वनिश्चय इत्यपेक्षाया- माकृतिस्त्विति तुशब्दसूचितोपपत्तिप्रदर्शनार्थमाकृतिरित्यादिभाष्यमाकृतिवाच्यत्वं प्रतिज्ञाय व्यक्तिवाच्यत्वपारिशेष्यादनिराकरणाद् युक्तमाशङ्क्य संक्षेपेण व्याचष्टे — असाधारण इति । व्यक्त्याकृत्योर्मध्ये का वाच्येति विचारणायां व्यक्तिवाच्यत्वे निराकृते पारिशेष्यादाकृति- वाच्यत्वं निश्चीयत इति भावः । ग्रन्थस्त्वेवं योज्यः असाधारणे व्यक्त्त्याख्ये यदा शब्दप्रवृत्तिर्न सम्भवति, तदा पारि- शेष्यादाकृतिः शब्दार्थ इति परिग्रह इति पूर्वग्रन्थगतं परिग्रहपदमनुवक्तव्यं शब्दार्थपदं चाध्याहार्यं कथं व्यक्तौ शब्दस्य प्रवृत्त्यसम्भव इत्याशङ्कानिराकरणार्थत्वेन यदिद्भिभाष्यं व्याख्यातुमसाधारणे वाच्येऽङ्गीक्रियमाणे शब्दस्य प्रभृतेष्वनेकेष्वर्थेषु वृत्त्यसम्भवादित्येत- देवावृत्त्या योज्यम् । असाधारणत्वाच्च व्यक्तेरेकस्यामपि शब्दप्रवृत्तिर्न सम्भवतीति भाष्यसूचितार्थप्रदर्शनायासाधारणशब्दः । सर्वसामान्यविशेषैर्मुक्ता हीत्यनेनैकापि व्यक्तिर्न शब्दार्थ इत्युक्तमिति व्याख्यानार्थत्वेन चैतद्योज्यम् । किंचिद्धि सामान्यरूपं किंचिद्धि विशेषरूपं वावलम्ब्य शब्देन प्रवर्त्तितव्यं तद्वियुक्ते रूपं कथं प्रवर्त्तेतेत्याशयः । ननु सामान्यविशेषरूपशब्दप्रवृत्तिनिमित्ताभावेऽपि तदुभयरूपरहितत्वमेव निमित्तं भविष्यति । न च तदेव सामान्यम् वस्तुरूपत्वादिति 'नैष दोष इत्यादिना न हि तत्सामान्यमित्यन्तेन