भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 746, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 746

६९२ मीमांसादर्शनम् [ सू० स्यादावविभागेन सर्वशब्दानां पर्यायत्वापत्तेरित्यर्थः । तथा सति को दोष इत्यपेक्षाया- माह—तत्रापीति । व्यक्त्यंशे च व्यक्त्यभिधानपक्षोक्ताः सर्वे दोषाः स्युरित्याह— व्यक्त्यंशे चेति । समुदायस्य यस्य स्पृष्टंमानैककार्यपरार्थविषयत्वात्साक्षात् क्रियानिष्पत्तिः क्रियासाधनविशेषाणात्मकभिन्नकार्ययोर्विशेषणत्वेन विशेष्यत्वेन वा स्पृष्टंमानयोर्व्यक्त्या- कृत्योर्न्नास्त्येवेत्याह—न चेति । जातिव्यक्त्योश्चात्यन्तभेदाभावादुभावपि न स्त इत्याह— अनन्त्यन्तेति । आकृतिविशिष्टव्यक्तिपक्षेऽपि व्यक्तिविशिष्टो वा, आकृतिविशिष्टो वा व्यक्ति- मात्रं वा विकल्प्य आद्यपक्षं तावद् दूषयति—आकृतीति । द्वितीयपक्षे त्वाकृतिव्यतिरिक्त- तद्विशिष्टव्यक्तिमात्राव्यक्त्यभावात्सिद्धान्तापत्तिरिति स्वयमेवाशङ्क्याह—व्यक्त्यैौति । एव- माकृतिव्यतिरिक्तायास्सपक्ष्या निरस्तत्वात् । तन्निरासेनेव च व्यतिकीर्णपक्षनिराससिद्धे- र्लिङ्गकारकसंख्यानां च प्रत्ययार्थत्वेन प्रातिपदिकवाच्यत्वासिद्धेः शब्दस्वरूपस्य च प्रत्यक्ष- सिद्धत्वेनाऽवाच्यत्वस्य । नात्मानमभिधत्ते हि शब्दः कश्चित्कदाचनेति शून्यवाद्रवार्त्तिकपाठनिरस्तत्वात्पारि- शेष्यादाकृतिवाच्यत्वसिद्धिरित्युक्तम्---इदानीम् । 'तत्र प्रयोगबाहुल्यात्द्विशेषेषु सत्स्वपि । प्रयोगात्परसामान्ये सति वाऽप्यप्रयोगतः ॥ सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः । गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ॥' इत्यनेन न्यायेनान्वयव्यतिरेकाभ्यामपि गोत्वस्यैव गोशब्दवाच्यताऽवसीयत इत्याह— नानेति । गोत्वाकारविषयं व गोशब्दस्य वाच्येन सह सम्बन्धे वाचकत्वरूपे शक्तिरन्वय- व्यतिरेकाभ्यां गम्यत इत्यर्थः । कृत्तद्धितसमासैः सम्बन्धाभिधानं भावप्रत्ययेनेति स्मृतेः । सम्बन्धवाची वाच्यत्वशब्दः । शब्दशक्तिजन्यज्ञानकर्मत्वमेव वा शक्तिशब्देनाभिप्रेत्य, गोत्वाकाराश्रितैव गोशब्दं प्रति वाच्यत्वरूपा शक्तिरिति योज्यम् । ननु वृद्धव्यवहारावसेयत्वाच्छक्तेः, तस्य च सन् द्विष्टवस्तुविषयत्वात् कथं निष्कृष्टैका- कारविधया शक्तिरवसीयत इत्याशङ्क्य तद्भूदेत्युक्तम् । सर्वात्मकवस्तुविषयत्वे शब्दशक्ते- रेकेनैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यप्रसङ्गात् तद्भेदा- द्वस्तुगतान् भिन्नाकारांश्छन्दशक्तयोऽनुसरन्तीत्यर्थः । भिद्यन्त इति भेदा इति व्युत्पत्त्या वस्तुगता भेदा इति विग्रहीतव्यं वस्तुगतभिन्नाकारानुसार्यभावेनैकशब्दव्यक्त्यानर्थक्य- प्रसङ्गाद् बहुवचनेन सूचितः । निरंशवस्तुवादिंन निराकर्तु -नानाकारेष्वित्युक्तम् । नानेकाकारेष्विति पाठे व्यावृत्तानुवृत्ताकारेष्वित्यर्थः । ननु गोमात्रविषयत्वे गोशब्दशक्तेः कथं गोशब्दात्पशुत्व-प्राणित्व-पार्थिवत्व-द्रव्यत्व- सत्त्वावगतिः । एकार्थसमवायमात्रेण तन्निश्चयाभ्युपगमे शावलेयत्वादीनामपि निश्चयः