मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 758, कुल 804 में से
संदर्भ में पढ़ें७०४ मीमांसादर्शनम् [ सू० विशेषणंविशेष्यत्वप्रकाराधिक्यतोऽधिकाः । पक्षाश्चतुःशतात्पूर्वं गणितादित्यनन्तता ॥ ननु 'भाष्ये किमाकृतिः शब्दार्थो व्यक्तिरिति' पक्षद्वयस्यैवोपन्यासाद् व्याख्यातृणा- मेतावत्पक्षापन्यासो न युक्त इत्याशङ्कयाह—पूर्वपक्षेऽपीति । यत्रोच्चारणार्थैक्यम्, तत्र व्यक्तिरर्थाः, अन्यत्राकृतिवचन इति भाष्ये पूर्वपक्षवेलायां द्वयवाच्यत्वपक्षस्यापि व्यक्तिपक्ष- वदुपन्यासादपिशब्दाच्च सिद्धान्तवेलायामथ किं विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिमित्याकृतिविशिष्टव्यक्तिपक्षोपन्यासात्, ननु व्यक्तिविशिष्टायामाकृतौ वर्त्तत इति च व्यक्तिविशिष्टाकृतिपक्षोपन्यासादुपलक्षणार्थः । सन्देहवेलायां पक्षद्वयोपन्यास इत्याशयः । नन्वेवं सति सर्वेषामेवोपन्यासनिराकरणे कस्मान्न कृत इत्याशङ्कयाह—उपन्यासेन चेति । सन्देहवेलायामपि पक्षद्वयोपन्यासोऽत एवेत्याह—तेनेति । भाष्योक्तसन्देहहेतुमुपन्यासपूर्वकं दूषयति—भाष्यकारेण चेति । अतः प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे व्यक्तिपक्षाभिधानाच्चेत्यस्मदुक्त एव द्वेधा सन्देहहेतुरित्याह—तेनेति । का पुनराकृतिरिति प्रश्नभाष्यं प्रथमपादेन त्वाकृतिः साध्यास्ति वा न वेत्याशङ्क्य; न प्रत्यक्षा सती साध्या भवितुमर्हतीत्यादिना रुचकादि- दृष्टान्तकवस्तुदाहरणेनाकृतिसद्भावस्य निरूपितत्वादयुक्तमित्याशङ्कते—का पुनरिति । तदश्राविणो ज्ञानाभिप्रायेण तावत्प्रश्नमुपपादयति—नैष दोष इति । प्रथमपादाश्राविण- स्तृतीयपादश्रवणेऽनधिकारज्ञानाभिप्रायायोगादुक्तेऽपि दृष्टाकारे वस्तुनि को व्यक्त्याकारः, को वाऽऽकृत्याकार इत्यविवेकात्सन्देहाभिप्रायेणोपपादयति—सन्देहाद्धेति । श्येनादिमध्या- शङ्कानिराकरणेनानुगताकारस्याकृतित्वनिश्चयात् सन्देहानुपपत्तेरुक्ताप्याकृतिर्व्यक्तिव्यतिरे- केणानुपलम्भान्न सम्भवतीति विपर्ययाभिप्रायेणोपपादयति—वैपरीत्येन चेति । युक्तिविशेषस्योत्तरेऽनभिधानेनोक्ताक्षेपाभिप्रायेण प्रश्नायोगात्स्वमतानुगताकारस्य व्यक्तितोऽत्यन्तभेदाभावेनाविचार्यत्वान्नाज्ञातोऽत्यन्तभिन्नाकृतिर्वाच्या । न चासावस्तीत्येवं विपर्ययाभिप्रायेणोपपादयति—अथ वेति । द्रव्येत्युत्तरभाष्यमज्ञानसन्देहानिरासार्थत्वेन तावदवतारणपूर्वकं व्याचष्टे—तत्राहेति । अत्यन्तभेदे सति व्यतिरेकानुपलम्भादभावः स्यात् । भिन्नाभिन्नयोस्तु न भेदानुपलम्भमात्रेणाऽभावो भवतीत्युक्ताक्षेपनिरासार्थत्वेन व्याचष्टे—यस्त्विति । ननु प्रथमपादोक्तन्यायेनैवाकृतिसिद्धावयं ग्रन्थोऽनर्थकः स्यादित्या- शङ्कयाह—न चेति । एतदेवोपपादयति—तेनैवेति । विवेककथनार्थत्वाभावे स्वरूपक- थनस्य सामान्यमित्येतावत्तैव सिद्धेर्मात्रशब्दोऽनर्थकः स्यादित्यर्थः । अत्यन्तभेदाभावेऽपि कथंचिद् भेदाद्विचार्यत्वं भवतीति द्वितीयविपर्ययाभिप्रायनिरा- सार्थत्वेन व्याचष्टे—यदपीति । यद्वा चायं मात्रशब्दोऽत्यन्तभेदनिरासार्थः । तथा सर्व- सामान्यव्याप्त्यर्थोऽपीति दर्शयितुं, तदभावे सत्तामात्रमेव, द्रव्यत्वादित्रयमात्रमेव वा निर्दिष्टः स्यादिति पक्षद्वयं तावदाह—द्रव्यादीनां चेति । एतत्पक्षद्वयनिरासे मात्रशब्दं योजयितुमाह—अथ वेति ।