मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 96, कुल 804 में से
संदर्भ में पढ़ें४४ मीमांसादर्शनम् [ सू०
मन्तरेणानिरासात् साप्यनुष्ठाने हेतुरिति, तद्द्वाराऽर्थवानेवार्थवाद इति भावः । किमर्था स्तुतिरिति चोद्याभिसन्धिं विवृणोति - नन्विति । भूतिकामान्तादिति फलसाधनतावगम्यं प्रवृत्तिहेतुं सूचयति । विनैव प्ररोचनां प्रवृत्तिसिद्धौ फलित- माह—स्तुतीति । फलसाधनतावगमस्य दुःखरूपतावगमप्रतिबद्धप्रवृत्तिकरणे- च्छोत्पादकत्वासंभवात् प्रवृत्त्यङ्गप्ररोचनानिमित्ततया स्तुतिरास्थेयेति परि- हरति—नहीति । स्यादेतत् विधेः प्ररोचकस्तुत्यपेक्षायामपि नार्थवादान्वयः, विधिबलेनैव प्राशस्त्यस्याक्षेपात् । न च गौरवं दोषाय 'वसन्ताय कपिञ्जलानालभते' इत्यादी तथा दर्शनात् इति । तत्राह—यदेति । स्तुतिपदानि अर्थवादाः । पूर्वेण = विध्युद्देशेनैव । विधिसप्रयोजनः पर्यवस्येदित्यर्थः । तत्र गत्यन्तराभावाद् गौरवं- मप्याश्रीयते इति भावः । यत्र तु सार्थवादो विध्युद्देशः नैवमित्याह—यदा चेति । चस्त्वर्थः आलभ्भशब्दस्तद्विषयसप्ररोचनसमग्रः विधिपरः विधीयते प्रतिपाद्यते पूर्वेणैवेत्यनुषङ्गः, तत्र ह्यर्थवादानामेव स्तुत्या प्ररोचकत्वोपपत्तौ, न विध्युद्देश- स्यैव तदाक्षेपकत्वं गौरवावहमाश्रयणीयमिति भावः । योग्यपदान्तरानुच्चारणे तन्निरपेक्षमेव वाक्यं स्वार्थे पर्यवसितमिति, न यदुच्चारणेऽपि तथैव तत्र पर्यवस्यतीत्यत्र दृष्टान्तमाह—यथेति । अवान्तर- वाक्यस्य पदान्तरनिरपेक्षतया स्वार्थपर्यवसानप्रदर्शनाय वाक्यार्थकथनम् — घट उत्पद्यत इति । तत्फलनिरपेक्षत्वमुक्तम् निराकाङ्क्षं चेति । पदान्तरसन्निधाने तस्यैवावान्तरवाक्यस्यार्थान्तरं संभवतीत्याह--यदा त्विति । तत्फलमुक्तम्— भवति चेति । रिक्तं तत्पदं प्रतीत्यर्थं दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति-- यदा नेति । तदा विधिशब्देनैव प्राशस्त्याक्षेपेण प्ररोचनापि क्रियत इत्यर्थः । स्तवने न प्ररोचनेत्यनुषङ्गः । ननु यत्रावान्तरवाक्यस्य महावाक्यार्थे सामर्थ्यं नास्ति, तत्र तथास्तु इह तु महावाक्यार्थेऽवान्तरवाक्यस्य सामर्थ्यमभ्युपगमात् किं महावाक्येनेति शङ्कते— नन्विति । ननु विध्युद्देशस्यैव सामर्थ्येऽपि श्रूयमाणत्वात् अर्थवादानां तदर्थत्वस्याभ्यु- पगमः तत्राह—यस्मिन्निति । यस्मिन् स्तुतिवचने सति अवान्तरवाक्यमविधायकं सप्ररोचनविधिपर्यवसितं न स्यात्, तत् स्तुतिवचनं माभूत् इत्यर्थः । स्तुतिपद- परित्यागे लाभान्तरमाह—तदभाव इति । ततश्चातिलाघवमिति भावः । अपौरु- षेये वेदे लघुनोपायेन सिद्धेः, किं गुरुणेति परित्यागपरिचोदनानुपपन्नेति परिहरति—सत्यमिति । तेन स्तुतिवचनेन प्रयोजनं स्तुतिसाध्यप्ररोचना तत्स्तुतिवचनम्, परित्यागानुपपत्तौ फलितमाह—तस्मिन्निति । स्तुतिवचने