भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 1, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 1

खं. १ अ. १ पान १

॥ ॐ नमः श्रीस्वानंदेशगणेशाय पूर्णयोगात्मने ॥

॥ श्रीगणेशाय नमः ॥ अथ श्रीमन्मौद्गलपुराणप्रारंभः। ध्याये स्थिरेण चित्तेन गणेशं सर्वसिद्धिदम् । बुद्धिप्रकाशकं पूर्णं योगिनां हृदि संस्थितम् ॥१॥ जितं तेनाखिलं नानाब्रह्मवर्णनवर्णितम् । नानाजगत्समूहं वै गणेशेनोभयं कृतम् ॥२॥ भक्तसंरक्षणार्थाय निर्गुणः सगुणस्तु यः। नानावतारवान्सोऽपि नानाभेदधरो बभौ ॥३॥ तस्मै नमो गणेशाय नरकुंजररूपिणे। सगुणो नररूपो यो निर्गुणो गजवक्त्रकः ॥४॥ नमः शिवाय शांताय विष्णवे प्रभविष्णवे । सूर्याय शक्तये चैव चतुर्धा ते विभागिने ॥५॥ ब्रह्माणं शेषनागं च नरं नारायणं सदा । नमामि भावयुक्तोऽहं पुराणपुरुषं परम् ॥६॥ देवानां योगिनां चैव महर्षीणां महात्मनाम् । व्रजामि शरणं नित्यं पुराणज्ञानसिद्धये ॥७॥ पुराकल्पेऽभवन्विप्राः शौनकाद्याः सुसाधनाः । कलिदोषभयात्सर्वे नैमिषारण्यमाश्रिताः ॥८॥ तस्मिन्कलियुगावासं ज्ञात्वादौ ब्रह्मणो मुखात् । मुनिधर्मप्रसिद्धयर्थं कर्मज्ञान- प्रसिद्धये ॥९॥ अन्यच्च ब्रह्मणा प्रोक्तं पुराणश्रवणं सदा । कलिदोषहरं पुण्यं तदर्थमभवन्द्यताः ॥१०॥ कस्मिंश्चित्समये सूतो लोमहर्षण आययौ। मुनीनां दर्शनार्थाय पुराणज्ञो विचक्षणः ॥११॥ नैमिषारण्यशोभां च पश्यंस्तत्र सुविस्मितः । अहो धन्यं महारण्यं कलिदोषविवर्जितम् ॥१२॥ दृष्ट्वा वै मुनयस्तेन सुप्रसन्नाननाम्बुजाः । नित्यनैमित्तिककराः स्वधर्माचरणप्रियाः ॥१३॥ पंचयज्ञरतास्तत्र वेदाध्ययनकारिणः । ब्रह्मतेजःसमायुक्ता ज्वलन्तः पावका इव ॥१४॥ विनाऽस्तेन यथा सूर्यो योगिनो वेदवेदिनः । तारकाः सर्वजन्तूनां शौनकाद्या महर्षयः ॥१५॥ तत्रागत्य महाभागः स सूतो रोमहर्षणः । साष्टाङ्गं प्रणतः पूर्वं परमाह्लादसंयुतः ॥१६॥ अभिवाद्य मुनीन्सर्वान्भक्त्या नम्रात्मकन्धरः । प्राञ्जलिः प्रयतो भूत्वा प्रोवाच मधुरं वचः ॥१७॥ सूत उवाच । वंशो धन्यो मदीयोऽद्य पितरौ च कुलं वयः । विद्या व्रतं तपो ज्ञानं धन्यं सर्वं मुनीश्वराः ॥१८॥ भवतां पादपद्मं च सर्वाशुभविनाशनम् । काङ्क्षितं यत्सदा देवैर्मया दृष्टं सुपुण्यतः ॥१९॥ साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा ब्रह्मवित्तमाः । येषां दर्शनमात्रेण कृतकृत्याश्च जन्तवः ॥२०॥ कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं न संशयः ।